________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्याय ः १०१
सूतसंहिता ।
चतुर्थो मुख्यसर्गाख्यो मुख्यस्तु स्थावराभिधः । तिर्यक्त्रोतस्तु पश्वादिः पञ्चमः परिकीर्तितः ॥ १६ ॥ षष्ठस्तु देवसर्गाख्यः सप्तमोऽर्वाक्प्रकीर्तितः । अष्टमो मुनिशार्दूला भूतप्रेतादिसंज्ञितः ॥ १७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
९७
इन्द्रियतदधिष्ठातृदेवतासर्गयोर्वैकारिकत्वेनैकी करणादिन्द्रिय सस्तृतीयति प्राकृतास्त्रपः । वैकारिकाख्य इति । इह पुराणेऽहंकारस्य महतः पृथगुपादानात्तन्मात्रगतज्ञान क्रियाशक्तिंजनकत्वमेव वैकारिकशब्दार्थः । अयं चार्थोऽग्रत एव हिरण्यगर्भं वक्ष्यामीत्यत्र स्पष्टीभविष्यति । उक्ता मुख्यसर्गादयो वैकृताः पञ्चेत्यष्टौ वैकृतेषु प्रथमस्यापि मुख्यसर्गस्य प्राकृतांस्त्रीनपेक्ष्य चतुर्थत्वम् । एवं तैर्यग्योन्यादीनां पञ्चमत्वादिकमिति ॥ १५ ॥ १६ ॥ १७ ॥ कौमारो नवमः प्रोक्तः प्राकृतो वैकृतश्व सः । एषामवान्तरो भेदो मया वक्तुं न शक्यते ॥ १८ ॥
कौमारः सनकादिर वक्ष्यमाणप्रभावातिशययोगात्प्रजापतिना सृष्टत्वाच प्राकृतवैकृतोभयात्मकः । इति सर्गा नव । यद्यपि मुनिभिर्भूम्युद्धरणानन्तरभाविप्रजापतिकृतो वैकृत एव सर्गः पृष्टः सूतेन स्वयमपि सिसुक्षोर्ब्रह्मण इत्यादिना स एव व्युत्पादितस्तथाऽपि सर्गानुक्रमणप्रस्तावेन प्राकृतमपि सर्गत्रपमुपन्यस्तमिति तेन सह सर्गा नवेत्युक्तम् । पुराणान्तरेषु मुख्यसर्गः षद्विधः । तैर्यग्योन्योऽष्टाविंशतिभेदो देवसर्गोऽष्टविध इत्याद्युक्तम् । इह तदनभिधाने कारणमाह - एषामवान्तर इति । न शक्यत इति । नेष्यत इत्यर्थः ॥ १८ ॥ अल्पत्वादुपयोगस्य द्विजा नाद्य वदाम्यहम् । सनकं च द्विजश्रेष्ठास्तथैव च सनातनम् ॥ १९ ॥ सनन्दनसमाख्यं च तथैव ब्रह्मवित्तमाः । ऋभुं सनत्कुमारं च ससर्जा प्रजापतिः ॥ २० ॥ ब्रह्मणो मानसाः पुत्रा इमे ब्रह्मसमा द्विजाः । महावैराग्यसंपन्ना अभवन्पञ्च सुव्रताः ॥ २१ ॥
For Private And Personal Use Only
१ ग. मुख्य: 'ख्यावरजाभि । २ ख. घ. 'क्तिजलं । ग. 'तिजडल' ङ. 'क्तिज्ञत्वं । ३ ग. प्रधानस्या । ४ ग तिर्य। ५ ग. तिर्थ ।
१३