________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तात्पर्यदीपिकासमेता शिवमाहात्म्यखण्ड अकत्मिानुसंधानाजाता एते प्रजापतेः। शिवध्यानैकमनसो न सृष्टौ चक्रिरे मतिम् ॥२२॥ अनिच्छाकारणमाह-अल्पत्वादिति । कौमारस्य सर्गस्य विभागमाहसनकं चेति ॥ १९ ॥ २० ॥ २१ ॥ २२ ॥
सृष्टयर्थ भगवान्ब्रह्मा लोकानामम्बिकापतेः।
मुमोह मायया सद्यस्तं दृष्ट्वा पुरुषोत्तमः॥२३॥ सनकादयश्चेत्सृष्टौ मतिं न चक्रिरे ब्रह्मा वा किमिति क्लेशात्मिकायां मतिमकरोदित्यत आह-सृष्टयर्थमिति । स हि शिवाज्ञया स्वयं सृष्टौ नियुक्त इति तेनावश्यं सा कर्तव्येत्यर्थः ॥ २३ ॥
बुबोध पुत्रं ब्रह्माणं द्विजा नारायणः पिता। प्रबोधितश्चतुर्वको विष्णुना विश्वयोनिना ॥ २४ ॥ महावोरं तपश्चक्रे ध्यायन्विष्णुं सनातनम् । एवं चिरगते काले न किंचित्प्रत्यपद्यत ॥ २५॥ ततः क्रोधो महानस्य ब्रह्मणोऽजायताऽऽस्तिकाः। क्रोधेन तस्य नेत्राभ्यां प्रपतनश्रुबिन्दवः ॥ २६॥ एतस्मिन्समये तस्य ब्रह्मणः परमेश्वरः। अददात्कृपया बुद्धिं भगवान्करुणानिधिः ॥२७॥ स पुनर्देवदेवस्य प्रसादादम्बिकापतेः।
तताप परमं घोरं तपो विप्राश्चतुर्मुखः॥२८॥ बुबोध बोधयामास ॥ २४ ॥ २५ ॥ २६ ॥ २७ ॥ २८ ॥
सृष्ट्यर्थ ब्रह्मणस्तस्य भ्रुवोर्माणस्य मध्यतः । अविमुक्ताभिधाद्देशात्स्वकीयात्तु विशेषतः ॥२९॥ त्रिमूर्तीनां महेशस्य द्विजा वेदार्थवित्तमाः। असंभूतो महादेवः सर्वदेवनमस्कृतः ॥ ३०॥ अर्धनारीश्वरो भूत्वा प्रादुरासीद्धृणानिधिः। तमजं शंकरं साक्षात्तेजोराशिमुमापतिम् ॥ ३१॥
For Private And Personal Use Only