________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः१०]
सूतसंहिता। सृष्टयर्थमिति । सृष्ट्यर्थं तपतस्तस्य ब्रह्मणो भ्रुवोर्माणस्य च मध्ये यदविमुक्ताभिधानं क्षेत्रं त्रिमूर्तीनां ब्रह्मविष्णुमहेश्वराणामुपलब्धिस्थानत्वेन साधारणमपि विशेषतो महेश्वरस्य स्वकीयम् । तत्रासंभूतोऽनादिरपि परमेश्वरः कृपयाऽर्धनारीश्वरः सन्मादुरासीत् । भ्रुवोमा॑णस्य च मध्यं शैवविमुक्ताभिधमिति हि जाबालोपनिषदि श्रूयते-'अथ हैनमत्रिः प्रपच्छ याज्ञवल्क्यं य एषोऽनन्तोऽव्यक्त आत्मा तं कथमहं विजानीयामिति । स होवाच याज्ञवल्क्यः सोऽविमुक्त उपास्यो य एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति सोऽविमुक्तः कस्मिन्प्रतिष्ठित इति वरणायां नास्यां च मध्ये प्रतिष्ठित इति कावै वरणा का च नासीति सर्वानिन्द्रियकृतान्दोषान्वारयति तेन वरणा भवति स
निन्द्रियकृतान्पापान्नाशयति तेन नासी भवतीति कतमं चास्य स्थानं भवतीति भ्रुवोर्घाणस्य च यः संधिः स एव द्यौर्लोकस्य परस्य च संधिर्भवतीति' २९ ॥ ३० ॥ ३१॥
सर्वज्ञं सर्वकर्तारं नीललोहितसंज्ञितम् । दृष्ट्वा नत्वा महाभक्त्या स्तुत्वा हृष्टः प्रजापतिः॥३२॥ उवाच देवदेवेशं सृजेमा विविधाः प्रजाः । ब्रह्मणो वचनं देवः श्रुत्वा विश्वजगत्पतिः॥३३॥ ससर्ज स्वात्मना तुल्याशिवो रुद्रान्दिजोत्तमः।
तं पुनश्चाऽऽह देवेशं ब्रह्मा विश्वजगत्प्रभुः ॥ ३४ ॥ नीललोहितमिति । कण्ठे नीलोऽन्यत्र लोहितः ॥ ३२ ॥ ३३ ॥ ३४ ॥
जन्ममृत्युभयाविष्टाः मृज देव प्रजा इति । एवं श्रुत्वा महादेवः प्रहस्य करुणानिधिः ॥ ३५ ॥ प्रोवाचाशोभनाः स्रक्ष्ये नाहं ब्रह्मन्प्रजा इमाः
अहं दुःखोदधौ मना उद्धरामि प्रजा इमाः ॥ ३६ ॥ जन्ममृत्युभयेति । तथाविधा एव प्रवृत्त्यभिमुखा यतः ॥ ३५ ॥ ३६॥
सम्यग्ज्ञानप्रदानेन गुरुमूर्तिपरिग्रहः ।
त्वमेव मृज दुःखांद्याः प्रजाः सर्वाः प्रजापते ॥३७॥ गुरुमूर्तीति योजयति परे तत्त्वे स दीक्षयाऽऽचार्यमूर्तिस्थः' इति युक्तम् ॥३७॥
१ ख. एषे.ऽव्यक्तोऽनन्त आत्मा । २ ङ. तमच्चास्य । ३ ख. दुःखान्याः ।
For Private And Personal Use Only