________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्डे इत्युक्त्वाऽन्तर्हितः श्रीमान्भगवानीललोहितः। ततस्तस्य प्रसादेन निवार्य कमलासनः ॥ ३८॥ रुद्रानयन्तकल्पायून्प्रजासृष्टौ प्रवर्तकान् ।
शब्दादीनि च भूतानि पञ्चीकृत्य द्विजोत्तमाः ॥३९॥ रुद्रानीललोहितेन सृष्टानिवार्य शब्दादीनि तन्मात्रापरपर्यायाणि सूक्ष्मभूतानि प्रागेव परमात्मना सृष्टानि पञ्चीकृत्य वियदादीनां पञ्चानां भूतानां मध्य एकैकं पञ्चात्मकं कृत्वा । यथा वियदादिकमेकैकं द्विधा द्विधा विभज्य तत्र द्विधातो द्वितीयभागं चतुर्धा विभज्य वाय्वादिभूतचतुष्टयप्रथमभागेष्वेकैकं योजयेत् । एवं वायोरपि द्वितीयभागं चतुर्धा विभज्य वायुप्रथमभागं परित्यज्य वायुव्यतिरिक्तभूतचतुष्टयपथमभागेषु योजयेत् । एवं तेजस उदकस्य पृथिव्याश्च द्वि. तीयं द्वितीयं भागं चतुर्धा विभज्य स्वस्वप्रथमभागं परित्यज्यावशिष्टभूतचतुष्टयप्रथमभागेषु योजिते सत्येकैकभूतस्याधं स्वकीयम, स्वेतरभूतचतुष्टयात्मकमित्येकैकस्य पश्चात्मकत्वेऽपि भागाधिक्यात्पृथिव्यादिविभागव्यवहार इति । उक्तं व्यासेन–वैशेष्यात्तु तद्वादस्तद्वाद इति ॥ ३८ ॥ ३९ ॥
तेभ्यः स्थूलाम्बरं वायुं वह्नि चैव जलं महीम् ।
पर्वतांश्च समुद्रांश्च वृक्षादीनपि सुव्रताः॥४०॥ तेभ्य इति । तेभ्योऽपञ्चीकृतेभ्यः शब्दादिभ्यः सकाशात्पञ्चीकरणेन निष्पन्नानि स्थूलादीन्याकाशादीनि भूतानि भौतिकानि पर्वतादीनि च ससर्जेत्यर्थः ॥ ४०॥
कलादियुगपर्यन्ताकालानन्यानपि प्रभुः ।
सृष्ट्वा वेदविदा मुख्याः साधकानसृजत्प्रभुः॥४१॥ कलादीति । कलाकाष्ठामुहूर्तादिकालविभागानां बह्वल्पतपनपरिस्पन्दोपाधिकृतत्वेन पञ्चीकरणोत्तरकालभावित्वम् । कालस्वरूपमात्रस्य तु मायापरमात्मसंबन्धमात्रात्मकत्वेन प्रागेव सिद्धेः ॥ ४१ ॥
मरीचिं च स्वनेत्राभ्यां हृदयागुमेव च । शिरसोऽङ्गिरसं चैव तथोदानाद्विजोत्तमाः॥४२॥ पुलस्त्यं पुलहं व्यानादपानात्क्रतुमीश्वरः ॥ दक्षं प्राणात्तथैवात्रिं श्रोत्राभ्यां मुनिपुङ्गवाः ॥ ४३ ॥
For Private And Personal Use Only