SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१शिवमाहात्म्यखण्डे तात्पर्यदीपिकासमेता दशमोऽध्यायः। नैमिषीया ऊचुः कथं ब्रह्माऽमृजविद्वजगत्सर्व चराचरम् । संग्रहेण तदस्माकं ब्रूहि पुण्यवतां वर ॥१॥ अहरवसाने ध्वस्तस्य लोकत्रयस्य तन्निवासिनां च पृथिव्युद्धरणसमनन्तरभाविसर्गक्रमं मुनयः पृच्छन्ति-कथं ब्रह्मेति । ब्रह्मा प्रजापतिः ॥१॥ सूत उवाचसिसक्षोर्ब्रह्मणस्तस्य ब्राह्मणा वेदवित्तमाः । अबुद्धिपूर्वकः सर्गः कल्पादिषु यथा पुरा ॥ प्रादुर्भूतोऽम्बिकाभर्तुराज्ञयैव तमोमयः ॥२॥ सिम्रक्षोरिति । अत्रैष सर्गक्रमः । ब्रह्मण आयुरवसाने ग्रस्तसमस्तप्रपञ्चाया अत्यन्तनिर्विकल्पिकाया मायाया जडत्वेन स्वप्रतिष्ठं निरस्ततरङ्गसमुद्रकल्पपरब्रह्म यावत्माणिकर्मपरिपाकमवतिष्ठते । परिपक्केषु तु कर्मसु तस्य परब्रह्मणः सर्गाभिमुखे प्रथमपरिस्पन्दे ज्ञानेच्छापयनविरहादबुद्धिपूर्वके स्रष्टव्यमाणिकर्मप्रेरणयैव प्रवर्तिते तद्विषयतया सविकल्पकत्वेन तदावरणमायाया यत्स्फुरणं सोऽयमबुद्धिपूर्वकस्तमसः सर्गः प्रथमः । यदधिकृत्योच्यते 'तस्मादव्यक्तमुत्पन्नम्' इति । श्रूयते च 'नासदासीत्' इत्यारभ्य 'तम आसीत्तमसा गृहळमने इति । एष च तमःसर्गः पञ्चमे शक्तिपूजाध्यायेऽस्माभिः प्रपञ्चितः । ततोऽत्यन्तनिर्विभागायां तस्यां मायायां तमःशब्दाभिधेयायां मोहमहामोहतामिलान्धतामिस्त्रापरपर्याया अस्मितारागद्वेषाभिनिवेशाश्चत्वारो विपर्ययाः प्रमुप्ततया वर्तन्ते । पथा तत्त्वलीनानां हि । उक्तं हि पातञ्जले । अविद्यास्मितारागद्वेषाभिनिवेशाः । अविद्यात्रयमुत्तरेषां प्रसुप्ततेनुविच्छिन्नोदाराणाम् । तथा ___ 'प्रसुप्तास्तत्त्वलीनानां तनुदग्धास्तु योगिनाम् । विच्छिन्नोदाररूपास्तु क्लेशा विषयसङ्गिनाम्' इति ॥ तत्रानात्मनि देहादावात्मतत्त्वविपर्ययोऽस्मिता स मोहः । तेन च देहभोगोपकरणे सक्चन्दनादावभिलाषो रागः स महामोहः । तत्माप्तिपरिपन्थिनि १ घ. 'तनुदग्धवि। For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy