SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः९] सूतसंहिता। क्षीरोदशायिने तुभ्यं नमो वैकुण्ठवासिने । नमो रागाभिभूतानां वैराग्यप्लवदायिने ॥ ३४॥ सूत उवाच-इत्थं ब्रह्मर्षिभिः सिद्धैः सनकाद्यैरभिष्टुतः । प्रसादमकरोत्तेषां श्रीवाराहशरीरभृत् ॥ ३५ ॥ ततः पूर्ववदानीय महीं साक्षान्महीपतिः। विसृज्य रूपं वाराहं स्वयं ब्रह्माऽभवद्धरिः ॥ ३६ ॥ सा मही संस्थिता विप्रा जलस्योपरि नौरिख । तस्यां ब्रह्मा महादेवप्रसादादेव सुव्रताः ॥३७॥ पूर्वसर्गोत्थविध्वस्तानखिलानमरप्रभुः । यथापूर्व विजाः स्रष्टुं मतिं चक्रे प्रजापतिः ॥ ३८ ॥ इति श्रुत्वा मुनिश्रेष्ठा नैमिषारण्यवासिनः । पूजयामासुरत्यर्थ मूतं सर्वहितप्रदम् ॥ ३९ ॥ इति श्रीस्कन्दपुराणे श्रीमतसंहितायां शिवमाहात्म्यखण्डे पृथिव्युद्धरणं नाम नव मोऽध्यायः ॥९॥ नमः प्रद्युम्नायेति । सर्वात्मकत्वेऽपि विभूतिमत्सु संनिधानात्तदात्मकत्वेन स्तूयते । स्मर्यतेहि 'यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंशसंभवम्' इति ॥ २४ ॥ २५॥ २६ ॥ २७ ॥ २८ ॥ २९ ॥ ३० ॥ ३१ ॥ ३२ ॥ ॥ ३३ ॥ ३४ ॥ ३५ ॥ २६ ॥ ३७ ।। ३८ ॥ ३९ ॥ इति श्रीमत्काशीविलासक्रियाशक्तिपरमभक्तश्रीमत्र्यम्बकपादाब्जसेवापरायणेनोपनिषन्मार्गप्रवर्तकेन माधवाचार्येण विरचितायां श्री सूतसंहितातात्पर्यदीपिकायां शिवमाहात्म्यखण्डे पृथिव्युद्धरणं नाम नवमोऽध्यायः ॥ ९ ॥ - - - १ ग. महर्षिभिः। For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy