________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्डे नमो वाचामिति । 'यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह' इति श्रुतेः ॥ २१ ॥ २२॥
आकाशादिप्रपञ्चाय नमस्तद्पशंकर । मायारूपाय मायायाः सत्ताहेतो जनार्दन ॥२३॥ मायाया इति । यतोऽधिष्ठानमन्तरेण मायाऽपि न सिध्यति ॥ २३ ॥
नमः प्रद्युमरूपाय नमः संकर्षणात्मने । नमोऽनिरुद्धरूपाय वासुदेवाय ते नमः ॥ २४ ॥ योगाय योगगम्याय योगानामिष्टसिद्धये । नमस्ते मत्स्यरूपाय नमस्ते कूर्मरूपिणे ॥२५॥ नमस्तुभ्यं वराहाय नारसिंहाय ते नमः । नमो वामनरूपाय नमो रामत्रयात्मने ॥ २६ ॥ नमः कृष्णाय सर्वज्ञ नमस्ते कल्किरूपिणे । कर्मिणां फलरूपाय कर्मरूपाय ते नमः ॥२७॥ कर्मकर्त्रे नमस्तुभ्यं नमस्ते कर्मसाक्षिणे । नमो विज्ञप्तिरूपाय नमो वेदान्तरूपिणे ॥२८॥ गुणत्रयात्मने तुभ्यं नमो निर्गुणरूपिणे । अद्भुतायामरेशाय शिवप्राप्त्यैकहेतवे ॥२९॥ नमो नक्षत्ररूपाय नमस्ते सोमरूपिणे । नमः सूर्यात्मने तुभ्यं नमो वज्रधराय ते ॥३०॥ नमस्ते पद्मनाभाय नमस्ते शार्ङ्गपाणये। नमस्तुभ्यं विशालाक्ष नमः श्रीधर नायक ॥३१॥ नमः संसारतप्तानां तापनाशैकहेतवे । श्रौतस्मातकनिष्ठानामचिरादेव मुक्तिद ॥ ३२॥ अन्येषामपि सर्वेषां संसारैकप्रदाव्यय । नमोऽसुरविमर्दाय नमो विद्याधरार्चित ॥३३॥
१ क. ख. ग. श्रुतम्। २ क. ग.घ. योगिनामिष्टसिद्धिद ।
For Private And Personal Use Only