________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भध्यायः९]
सूतसंहिता। नमः स्वयंभुवे तुभ्यं सूत्रात्मादिस्वरूपिणे ।।
विरादप्रजापतेः साक्षाज्जनकाय नमो नमः ।। १६ ॥ सूत्रात्मादीति । सूत्रात्मा क्रियाशक्तिप्रधानः प्राणोपाधिकः । आदिशब्दे. नान्तर्यामी ज्ञानशक्तिप्रधानो मनउपाधिको हिरण्यगर्भः। विराट् समष्टिरूपः स्थूलशरीरः ॥ १६ ॥
विश्वतैजसरूपाय प्राज्ञरूपाय ते नमः।
जाग्रत्स्वप्रस्वरूपाय नमः सुप्त्यात्मने नमः॥१७॥ इत्थं समष्टिरूपवैश्वानरहिरण्यगर्भेश्वररूपतामुक्त्वा व्यष्टिरूपविश्वतैजसमाजरूपतां तदवस्थारूपतां चाऽऽह-विश्वतैजसेति । अवस्थात्रयविशिष्टो विश्वादिः ॥ १७॥
अवस्थासाक्षिणे तुभ्यमवस्थावर्जिताच्युत । तुरीयाय विशुद्धाय तुर्यातीताय ते नमः ॥ १८ ॥ अवस्थोपलक्षितस्तद्रष्टा तत्साक्षी । तदप्यपश्यन्स्वप्रतिष्ठोऽवस्थावर्जितः । साक्षिणं विवृणोति-तुरीयायेति । स हि विश्वादित्रयापेक्षया चतुर्थत्वात्तुरीयः। अवस्थाविवर्जितं विवृणोति-तुर्यातीतायेति ॥ १८ ॥
प्रथमाय समस्तस्य जगतः परमात्मने ।
ॐकारकस्वरूपाय शिवाय शिवद प्रभो ॥ १९ ॥ सर्वविज्ञानसंपन्न नमो विज्ञानदायिने ।
जगतां योनये तुभ्यं वेधसे विश्वरूपिणे ॥२०॥ ॐकारेति । 'एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः' इति हि श्रृयते । प्रणवपतीकत्वात्तत्यतिपाद्यत्वाद्वा तत्स्वरूपः ॥ १९ ॥ २० ॥
नित्यशुद्धाय बुद्धाय मुक्ताय सुखरूपिणे । नमो वाचामतीताय नमोऽगम्याय ते नमः ॥ २१ ॥ अप्रमेयाय शान्ताय स्वयंभानाय साक्षिणे । नमः पुंसे पुराणाय श्रेय प्राप्त्यैकहेतवे ॥२२॥
१ क, ख. पर । ग. परे । ङ. परम् । २ ख. तुर्याय ते वि।
For Private And Personal Use Only