SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८८ तात्पर्यदीपिकासमेता शिवमाहात्म्यखण्डे आपो नारा इति प्रोक्ता आपो वै नरसूनवः । ता यदस्यायनं तेन प्रोक्तो नारायणः स्वयम् ॥ ७॥ स पुनर्देवदेवस्य शिवस्य परमात्मनः । आज्ञया सलिले मनां महीमुद्धर्तुमिच्छया ॥ ८॥ वाराहं रूपमास्थाय महापर्वतसंनिभम् । अट्टहासं दिजाः कृत्वा प्रविश्य च रसातलम् ॥ ९॥ दंष्ट्राभ्यामुजहारैनां महीमन्तर्गतां जले। तस्य दंष्ट्राग्रविन्यस्तामणुप्रायां महीमिमाम् ॥ १०॥ दृष्ट्वा विस्मयमापन्ना जनलोकनिवासिनः । ते पुनर्वेदविच्छ्रेष्ठाः सिद्धा ब्रह्मर्षयो हरिम् ॥ ११॥ अस्तुवश्रद्धया विष्णुं महाबलपराक्रमम्। ब्रह्मर्षय ऊचुःनमस्ते देवदेवानामादिभूत सनातन ॥ १२ ॥ पुरुषाय पुराणाय नमस्ते परमात्मने । जरामरणरोगादिविहीनायामलात्मने ॥ १३ ॥ ब्रह्मणां पतये तुभ्यं जगतां पतये नमः । लोकालोकस्वरूपाय लोकानां पतये नमः ॥ १४ ॥ शङ्खचक्रगदापद्मपाणये विष्णवे नमः। नमो हिरण्यगर्भाय श्रीपते भूपते नमः॥ १५॥ नरो हिरण्यगर्भस्तत उत्पन्नत्वादापो नरसूनवः । यत आहुः-- 'अप एव ससर्जाऽऽदौ तासु वीर्यमवासृजत्' इति । जनलोकेति । पृथिव्यादिलोकत्रये जलप्लुतेऽपि चतुर्थे महलोंके निवसतां पञ्चमे जनलोके गतत्वाजनलोकनिवासिन इत्युक्तम् । जनलोकं प्रयान्त्येते महर्लोकनिवासिन इत्युक्तम् । लोकालोकेति । सकलभूतात्मकैकपादरूपाय स्वप्रतिष्ठत्रिपाद्रूपाय च । " 'पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि' इति श्रुतेः ॥ ७॥ ८ ॥२॥ १० ॥ ११ ॥ १२ ॥ १३ ॥ १४ ॥ १५ ॥ For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy