SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः९) सूतसंहिता। लमासत्ति स्मिन्प्रजापतिर्वायुर्भूत्वाऽचरत्स इमामपश्यत्तां वराहो भूत्वाऽहरत्तां विश्वकर्मा भूत्वा व्यमार्ट साऽप्रथत सा पृथिव्यभवत्' इत्यादि । विष्णुपुराणेऽपि 'तोयान्तः स महीं ज्ञात्वा जगत्येकार्णवे प्रभुः। अनुमानात्तदुद्धारं कर्तुकामः प्रजापतिः॥ अकरोत्स तनूमन्यां कल्पादिषु यथा पुरा । मत्स्यकूर्मादिकां तद्वद्वाराहं रूपमास्थितः' इति ॥ १ ॥ सूत उवाचआसीदेकार्णवं घोरमविभागं तमोमयम् । शान्तानलादिकं सर्व न प्राज्ञायत किंचन ॥२॥ सूतस्तु पूर्वकल्पावसानप्रकाराभिधानपुरःसरमुत्तरं वक्तुमारभते-आसीदेकेति । तमोमयमिति । चन्द्रादित्यादिज्योतिषामभावात् । अत एव विभागापरिज्ञानादविभागम् ॥ २॥ तदैवैकाम्बुधौ नष्टे जगति स्थावरादिके । विष्णुः साक्षात्समद्भतस्तदा तस्मिन्महोदधौ ॥३॥ स पुनर्वेदविच्छ्रेष्ठाः सहस्राक्षः सहस्रपात् । सहस्रशीर्षा पुरुषो द्विजा नारायणाभिधः ॥४॥ जगतीति । जगति पृथिव्यादिलोकत्रयात्मके यत्स्थावरजङ्गमजातं तस्मि न्सस्मिञ्जलप्लुते । अत एव जनलोकनिवासिनोऽस्तुवनिति वक्ष्यति । विष्णुः साक्षादिति । ब्रह्मा बहरवसाने विष्णुरूपी शेषपर्यङ्कशायी स्थित्वा वराहरूपेण भुवमुद्धृत्य स्वेनैवाऽऽत्मना पुनर्लोकत्रयमस्राक्षीत् । अतएव वक्ष्यति - 'विसृज्य रूपं वाराहं स्वयं ब्रह्मा भवद्धरिः' इति ॥ ३ ॥ ४ ॥ सुष्वाप सलिले साक्षाच्छिवं परमकारणम् । ऋतं सत्यं परं ब्रह्म पुरुषं साम्बमीश्वरम् ॥ ५॥ ऊर्ध्वरेतं विरूपाक्षं हृदि ध्यायन्महेश्वरम् । इमं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति ॥६॥ ऋतं सत्यमिति । उमासहायमूर्ध्वरेतसं त्रिनेत्रं महेश्वरमृतसत्याभिधेयसूक्ष्मस्थूलभूतोपलक्षितसमस्तजगदात्मकं पुरुषं परिपूर्ण परं निष्कलं ध्यायन् ॥५॥६॥ २ १८. 'त तत्पृयि । २ ग. 'जल'। For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy