________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८६
तात्पर्यदीपिकासमेता
[१ शिवमाहात्म्यखण्डे
अत्राप्येषा श्रुतिर्भविष्यति । उक्तोपदेशस्य फलमाह – अतः सर्वप्रयत्नेनेति । उपासनीय इति । उपनिषच्छब्दानां शक्तितात्पर्यावधारणन्यायानुसंधानं श्रवणम् । वस्तुतथात्वव्यवस्थापकन्यायानुसंधानं मननम् | श्रवणमननाभ्यामवधृतेऽर्थे
Acharya Shri Kailassagarsuri Gyanmandir
विजातीयप्रत्ययाव्यवहितसजातीयमत्ययसंतानानुवृत्तिर्निदिध्यासनमुपासना | 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इति हि दर्शनमनूच तत्साधनत्वेन श्रवणादीनि हि श्रूयन्ते ॥ ५६ ॥ ५७ ॥ ५८ ॥ इति सूतवचः श्रुत्वा नैमिषारण्यवासिनः । शिवः कालानवच्छिन्न इत्यजानन्त पण्डिताः ॥ ५९ ॥ इति श्रीस्कन्दपुराणे श्रीसूतसंहितायां शिवमाहात्म्यखण्डे कालपरिमाणतदनवच्छिन्नस्वरूपकथनं नामाष्टमोऽध्यायः ॥ ८ ॥
कः कालेनानवच्छिन्न इति यत्पृष्टं तस्योत्तरमुक्तमुपसंहरति । शिवः कालेति ।। ५९ ।।
इति श्रीमत् काशीविलास क्रियाशक्तिपरमभक्त श्रीम त्र्यम्बकपादाब्ज सेवापरायणेनोपनिषन्मार्गप्रवर्तकेन माधवाचार्येण विरचितायां श्रीसूतसंहिता तात्पर्यदीपिकायां शिवमाहात्म्यखण्डे कालपरिमाणतदनवच्छिन्नस्वरूपकथनं नामाष्टमोऽध्यायः ॥ ८ ॥
नवमोऽध्यायः ॥
नैमिषीया ऊचुः— भगवन्विष्णुना तोयात्कथं भूमिः समुद्धृता । तदस्माकं समासेन वद सर्वार्थवित्तम ॥ १ ॥
ब्राह्ममेकमहः कल्प इत्युक्तब्रह्मदिनावसाने लीनस्य पृथिव्यादिलोकत्रयस्य तदीपरात्र्यवसाने पुनरुत्पत्तिप्रकारं जिज्ञासमाना मुनयः पृच्छन्ति भगवविष्णुनेति । वराहरूपेणाहरादौ हि ब्रह्मा वराहरूपो भूत्वा सलिले मग्नां भुवमुद्धृत्य पुनर्ब्रह्मैव भूत्वा लोकत्रयमसृजदिति श्रूयते 'आपो वा इदमये सलि
For Private And Personal Use Only