________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्याय:]
सूतसंहिता। प्रतिकल्पं मुनिश्रेष्ठा ब्रह्मनारायणादयः ॥५१॥ अस्मादेव विजायन्ते विलीयन्ते यथा पुरा ।
अयमेको महादेवः साक्षी सर्वान्तरो हरः॥५२॥ नन्वनादौ संसारे कदाचिदासीब्रह्मादीनां लयो न वा । आसीच्चेत्कथमिदानी तदुपलम्भः । न चेदितः परं भविष्यतीति कैव प्रत्याशेत्यत आह-प्रतिकल्पमिति ।
अस्य तु न तथाविधत्वमित्याह--अयमेक इति । सर्वान्तरत्वेनाधिष्ठानत्वान तथात्वमित्यर्थः । एष त आत्मा सर्वान्तरः' इति श्रुतेः ॥ ५१ ॥ ५२ ॥
अम्बिकासहितो नित्यं नीलकण्ठस्रिलोचनः। चन्द्रार्धशेखरः श्रीमान्श्रीमयाघ्रपुरे तथा॥५३॥ वाराणस्यां तथा सोमनाथे वृद्धाचलाभिधे । वेदारण्ये च वल्मीके श्रीमत्केदारसंज्ञिते ॥ ५४॥ श्रीमद्दक्षिणकैलासे सर्वस्थानोत्तमोत्तमे। नित्यं संनिहितो भक्तैरखिलैरमरेश्वरैः॥
उपास्यः सर्वदा विप्राः सर्वैर्नित्यत्वकाक्षिभिः ॥५५॥ ननूक्तनिरुपाधिकशिवस्वरूपं वाङ्मनसयोरगोचरतया श्रूयते---
'यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह' इति तत्कथमर्वाचीनरुपासनीयमित्यत आह-अम्बिकासहित इति । स्वीकृत. दिव्यावतारस्य तस्य स्थानविशेषेषु सुकरमुपासनमित्यर्थः ।। ५३ ॥५४॥१५॥
कोऽन्यः संसारमनानामुपास्यो मोचकः प्रभुः ॥५६॥ ऋते साक्षान्महादेवमित्येषा शाश्वती श्रुतिः। अतः सर्वप्रयत्नेन भवद्भिर्मुनिसत्तमैः ॥ ५७ ॥ कालपाशविनाशाय शंकरः शशिशेखरः।
उपासनीयः श्रोतव्यो मन्तव्यश्च द्विजोत्तमाः॥५८॥ तस्यैवोपासनीयत्वे श्रुतिमर्थत उदाहरति-कोऽन्य इति ।
'यदा चर्मवदाकाशं वेष्टपिष्यन्ति मानवाः । तदा शिवमविज्ञाय दुःखस्यान्तो भविष्पति' इति श्रुतिः ।
For Private And Personal Use Only