SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता शिवमाहात्म्यखण्डे पुराणैर्दशभिर्विप्राः प्रोक्तः शंभुस्तथैव च । चतुर्भिर्भगवान्विष्णुभ्यिां ब्रह्मा प्रकीर्तितः ॥ ४६ ॥ अग्निरेकेन विप्रेद्रास्तथैकेन दिवाकरः। एवं मूर्यभिधानेन द्वारेणैव मुनीश्वराः ॥४७॥ प्रतिपाद्यो महादेवः स्थितः सर्वासु मूर्तिषु । स एव मोचकः साक्षाच्छिवः सत्यादिलक्षणः ॥४८॥ तथाऽपि शिवमूर्तिप्वेव भूयसां पुराणानामादर इत्याह-पुराणैरिति । यान्यपि दशभ्योऽवशिष्टानि पुराणानि तेषामपि तत्तन्मूर्तयो द्वारमात्रम् । पर्यवसानं तु परशिव एवेत्याह-चतुर्भिरित्यादि । सर्वेषां पुराणानां साक्षात्परंपरया वा परशिवे पर्यवसाने कारणमाह-स एव मोचक इति । मोचको मोक्षपदः स एव साक्षान्मोक्षपदः । अन्ये तद्वारा ॥ ४६ ॥ ४७ ॥ ४८ ।। ब्रह्मविष्णुमहादेवैरुपास्यः सर्वदा द्विजाः । अतोऽन्यदात विप्रेन्द्रा अविनाश्योऽयमेव हि ॥४९॥ ननु शिवः सर्वात्मकः श्रूयते । 'सर्वे वेदा यत्रैकं भवन्ति' इत्यारभ्य 'अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा' इति श्रुतेः । अतो ब्रह्मादीनामपि तदात्मकत्वे किंनिबन्धनमिदमुपास्योपासकमावलक्षणवलक्षण्यमित्यत आह-ब्रह्मविष्ण्विति । निरस्तसमस्तोपाधिकं सच्चिदानन्दैकरसं परशिवस्य स्वरूपं तदेव तत्तदुच्चावचोपाधिविशिष्टं सद्ब्रह्मादय इत्युच्यते । तत्रोपाधीनामन्तवत्वेन तद्विशिष्टरूपाणामप्यन्तवत्त्वम् ।शिवस्य तु निरुपाधिकत्वेनानन्तवत्वमित्येतद्वैलक्षण्यमित्यर्थः । 'एष त आत्माऽन्तर्याम्पमृतोऽतोऽन्यदार्तम्' इति श्रुतेः ॥ ४२ ॥ अयमात्मविदामात्मा ह्ययमज्ञानिनामपि । अस्मादेव समुत्पनं स्थितमस्मिन्दिजोत्तमाः ॥ अस्मिनष्टमिदं सर्व जगन्मायामयं बुधाः ॥५०॥ ननु विशिष्टस्यान्तवत्त्वे तदन्तःपातित्वेन विशेषणस्यापि तथात्वात्कथं सर्वात्मतेतिचेत् । विशिष्टाकारस्य कल्पितत्वेऽपि स्वरूपाकारस्य चेतनाचेतन. जगदधिष्ठानत्वेनाकल्पितत्वान्नैवमित्याह-अयमात्मविदामित्यादि ॥५०॥ १ ख. कत्वादन। For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy