________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ८]
सूतसंहिता ।
प्रसादहीनाः पापिष्ठा मोहिता मायया जनाः । नैव जानन्ति देवेशं जन्मनाशादिपीडिताः ॥ ३८ ॥ केषां चिदात्मविद्याया अनुदयकारणमाह-- प्रसादहीना इति ॥ ३८ ॥ यां यां मूर्ति समाश्रित्य ब्रह्मभावनया जनाः । आराधयन्ति ते सर्वे क्रमाजानन्ति शंकरम् ॥ ३९ ॥
८३
तर्हि तत्तद्देवताभाजो न प्राप्मुर्युरेव किं शिवं नेत्याह - यां यामिति | शिवबुद्धा सर्वासु मूर्तिषु क्रियमाणाssराधना शिवस्यैवेत्यर्थः ।
उक्तं हि गीतासु
"
यो यो यां यां तनुं भक्तः श्रद्धयाऽचितुमिच्छति' इत्यादि ॥ ३९ ॥ रुद्रस्य मूर्तिमाराध्य प्रसादात्क्रमवर्जिताः । अयत्नेनैव जानन्ति शिवं सर्वत्र संस्थितम् ॥ ४० ॥ तक सर्वासु मूर्तिष्वेकरूपमेव फलमिति नेत्याह - रुद्रस्येति ॥ ४० ॥ रुद्रमूर्तिषु सर्वासु शिवोऽतीव प्रकाशते ।
अन्यासु तारतम्येन शिवः साक्षात्प्रकाशते ॥ ४१ ॥ तत्र कारणमाह--- रुद्रमूर्तिष्विति ॥ ४१ ॥
आदर्श निर्मले यद्ददृशं भाति मुखं द्विजाः । तथाऽतीव महादेवो भाति शुद्धा मूर्तिषु ॥ ४२ ॥ तारतम्येन प्रकाशे कारणमाह - आदर्श इति ॥ ४२ ॥
For Private And Personal Use Only
कानिचिदवाक्यानि ब्राह्मणा वेदवित्तमाः । रुद्रमूर्तिं समाश्रित्य शिवे परमकारणे ॥ ४३ ॥ पर्यवस्यन्ति विप्रेन्द्रास्तथा वाक्यानि कानिचित् । विष्णुमूर्तिं समाश्रित्य ब्रह्ममूर्ति च कानिचित् ॥ ४४ ॥ आयीं मूर्तिमाश्रित्य श्रुतिवाक्यानि कानिचित् ।
सूर्यमूर्ति तथाऽन्येषां मूर्ति चाऽऽश्रित्य कानिचित् ॥४५॥
नानादेवताप्रतिपादकानां तत्तन्मूर्तिद्वारा परशिवे पर्यवसानमाह- कानिचिद्वेदवाक्यानीति । श्रूयते हि - 'सर्वे वेदा यत्पदमामनन्ति' इति ||४३|| ४४ ||४५ |