SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्पदीपिकासमेता [शिवमाहात्म्यखण्ड काश्चित्सत्त्वगुणोद्रेकादिशिष्टा मूर्तयो द्विजाः । काश्चित्तमोगुणोद्रेकानिहन्त्र्यो वेदवित्तमाः ॥३४॥ महासर्गाणामानन्त्यात्पतिमहासर्ग ब्रह्मादिसृष्टेस्तन्मूर्तीनामानन्त्यम् । न केवलं ब्रह्मादयोऽपरा अप्यनन्ताः शिवस्य मूर्तयो गुणभेदेन विचित्रा इत्याहकाश्चित्सत्त्वगुणोद्रेकादिति 'ये अनेषु विविध्यन्ति ये पथां पथिरक्षयः' इत्यादयो हि निग्रहानुग्रहव्यापाराः। शिवमूर्तयोऽनन्ताः श्रूयन्त इत्यर्थः ॥ ३४ ॥ परस्परोपजीव्याः स्युर्हिताय जगतां द्विजाः। सर्वमूर्तिष्वयं साक्षाच्छिवः सत्यादिलक्षणः ॥ ३५॥ परस्परोपजीव्या इति । संहारैकगुणत्वे हि न सर्गोऽभिवर्धेत । सत्त्वैकगुण त्वे च दर्पण विनश्येयुः । अतः परस्परोपजीवनं जगतो हितम् । इत्थं मूर्तीनांगुणवैचित्येण शान्तघोरमूढतेति । तेत्र सर्वत्रानुगतस्य शिवस्य स्वरूपादच्युतिमाह - सर्वमूर्तिष्विति ॥ ३५॥ अप्रच्युतात्मभावन सदा तिष्ठति सुव्रताः। तमहंप्रत्ययव्याजात्सर्वे जानन्ति जन्तवः ॥ ३६॥ सर्वत्रानुगमे किमित्यनुपलम्भस्तत्राऽऽह--तमहंप्रत्ययेति । अहंपत्ययो हि सर्वप्रत्यक्त्वं विषयीकरोति । सर्वान्तरत्वं च शिवस्य स्वरूपम् । श्रूयते हि'अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा' इति । अतोऽहमिति प्रत्यगात्मनो ज्ञानं तत्सर्वं शिवस्यैवेत्यर्थः ॥ ३६॥ तथाऽपि शिवरूपेण न विजानन्ति मायया । प्रसादाद्देवदेवस्य श्रुत्युत्पन्नात्मविद्यया ॥ बहूनां जन्मनामन्ते जानन्त्येव शिवं बुधाः ॥ ३७॥ तर्हि सर्वे प्राणिनः कृतकृत्या इति किं शास्त्रैराचार्वेति तत्राऽऽह-तथापीति । निरुपाधिकशिवस्वरूपज्ञानं हि पुरुषार्थः । न तत्तेषामस्ति मायया मोहितत्वादित्यर्थः । कथं तर्हि मायां जित्वा शिवमवाप्नुयुरिति तत्राऽऽह-प्रसादादिति ॥ ३७॥ १ क, ख, ग. तच्च । २ घ.सर्वान्तरः सर्व वि। For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy