SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [अध्यायः ८] सूतसंहिता । ८१ श्राः । कालस्य हि शिवापत्तता श्रूयते - 'एतस्य वा अक्षरस्य प्रशासने गागि निमेषा मुहूर्ता अर्धमासा मासा इति विधृतास्तिष्ठन्तीति । इतिशब्दोऽनुक्तसकलकालभागसंग्रहार्थः ॥ २७ ॥ Acharya Shri Kailassagarsuri Gyanmandir असंख्या विलयं याता ब्रह्माणः पण्डितोत्तमाः । असंख्या विष्णवो रुद्रा असंख्या वासवादयः ॥ २८ ॥ ब्रह्मादीनां भूतकालपरिच्छेदमाह– असंख्पा विलयं याता इति ॥ २८ ॥ एक एव शिवः साक्षात्सृष्टिस्थित्यन्तंसिद्धये । ब्रह्मविष्णुशिवाख्याभिः कल्पनाभिर्विजृम्भितः ॥ २९ ॥ तत्किंभूते काले ब्रह्मादयः स्वतन्त्राः । न । तदाऽपि तद्रूपेण शिवस्यैव सर्गादिकर्तृत्वादित्याह - एक एवेति ॥ २९ ॥ रजोगुणेन संछन्नो ब्रह्माधिष्ठाय तं गुणम् । स्रष्टा भवति सर्वस्य जगतः पण्डितोत्तमाः ॥ ३० ॥ गुणेन तमसा छन्नो विष्णुः सत्त्वगुणं बुधाः । अधिष्ठाय भवेत्सर्वजगतः पालकः प्रभुः ॥ ३१ ॥ तथा सत्त्वगुणच्छन्नो रुद्रो विप्रास्तमोगुणम् । अधिष्ठाय भवेद्वन्ता जगतः सत्यवादिनः ॥ ३२ ॥ कल्पनावैचित्र्ये गुणवैचित्र्यं कारणमाह - रजोगुणेनेति । ब्रह्मा हि रक्तवर्णत्वाद्धही रजोगुणेन संछन्नः प्रवृत्तिशीलत्वादन्तरपि तमेवाधितिष्ठति । इन्द्रनीलश्यामत्वाद्विष्णुरन्तस्तमसा संछन्नो जगतः पालनेन बहिः सत्त्वमधितिष्ठति । चन्द्रकोटिप्रकाशत्वादुद्रोऽन्तः सच्चेन संछन्नः सकलसंसारसंहाराद्ध हिस्तमोगुणेनेति । गुणवैचित्र्यं ब्रह्मादीनां गुणत्रयनिबन्धनं । रक्तकृष्णश्वेतरूपमिति सूतगीतासु द्वितीयाध्याये वक्ष्यति । सत्यवादिन इति मुनीनां संबोधनम् || ३० || ३१ ॥ ३२ ॥ १३ ब्रह्मणो मूर्तयोऽनन्ता जायन्ते गुणभेदतः । तथा विष्णोस्तथेशस्य गुणभेदेन सुव्रताः ॥ ३३ ॥ ननु ब्रह्मादीनां भूतकालपरिच्छेदे कथमधुनातनो भविष्यन्वासर्गादीरित्यत आह-ब्रह्मणो मूर्तयोऽनन्ता इति ॥ ३३ ॥ १ ङ. 'गियां वा नि । २ घ ङ. न्तहेतवे । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy