SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८० तात्पर्यदीपिकासमेता [१ शिवमाहात्म्यखण्डे त्पत्तिकस्तु शब्दस्पार्थेन संबन्ध इति जैमिनिसूत्र उत्पत्तिशब्दः । तथाहि तत्र व्याख्यातं शाबरभाष्य औत्पत्तिक इति नित्यं ब्रूम इति ॥ २३ ॥ Acharya Shri Kailassagarsuri Gyanmandir कालो माया च तत्कार्यं शिवेनैवाऽऽवृतं बुधाः । शिवः कालानवच्छिन्नः कालतत्त्वं यथा तथा ॥२४॥ कालस्य कदाचिदपि विलयाभावात्कथं कल्पितत्वमुक्तम् | ज्ञानविलाप्यस्यैव कल्पितवनियमादित्यत आह- कालो मायेति । मायाकार्यं च माया च तत्संबन्धरूपः कालश्च त्रितयमपि शिवतत्त्वज्ञानेन विलीयत एव । तद्व्यतिरिक्तोपायैर्न विलीयत इत्यभिप्रायेण तु न कालो लीयते सदेत्युक्तमित्यर्थः । कालस्य सर्वपरिच्छेदकत्वे सर्वान्तर्भावाच्छिवस्यापि तेन परिच्छेदो न शङ्कनीय इत्याह- शिव: कालेति । यथा कालः कालेन न परिच्छिद्यते तथा शिवोऽपीति ॥ २४ ॥ तथाऽपि कालोऽसत्यत्वान्मायया सह लीयते । शिवो न विलयं याति द्विजाः सत्यस्वभावतः ॥ २५ ॥ कालशिवयोरुभयोरपि कालानवच्छेदसाम्येऽपि सत्यासत्यत्वकृतं वैलक्षण्यमित्याह - तथाऽपीति ॥ २५ ॥ उत्पन्नानां प्रनष्टानामुत्पाद्यानां तथैव च । शिवः कालानवच्छिन्नः कारणं त्विति कीर्तितः ॥ २६ ॥ कालसामान्पेन शिवस्थानवच्छेद उक्तः । कालविशेषैस्तु सुतरामनवच्छेद इत्याह-- उत्पन्नानामिति । शिवादेव हि जगज्जायते तस्मिन्नेव वर्तते तत्रैव लीयते । अतो जगतः प्रागपि सत्वान्न वर्तमान भविष्यत्कालाभ्यामवच्छिद्यते । स्थितिकालेऽपि सत्वान्न भूतभविष्यद्धयां विनाशोत्तरंमपि सत्त्वान भूतवर्त - मानाभ्यामिति ॥ २६ ॥ प्रसादादस्य देवस्य ब्रह्मविष्ण्वादिकं पदम् । तदधीनं जगत्सर्वमित्येषा शाश्वती श्रुतिः ॥ २७ ॥ ननु जगदुत्पत्तिस्थितिलयकारणं ब्रह्मविष्णुरुद्रास्तत्कथं शिव इत्युच्यत इत्यत आह — प्रसादादस्येति । शिवायत्तकालावच्छिन्ना ब्रह्मादयोऽपि न स्वत १. ख. घरकालम । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy