________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भध्यायः८]
सूतसंहिता। प्रवृत्तिनिमित्तभेदेन मायादिशब्दा एकमेवार्थ प्रतिपादयन्तीत्यभिप्रेत्य प्रवृत्तिनिमित्तभेदमाह-अन्यथाभानेत्यादिना ॥ १८ ॥ १९ ॥ २०॥
कार्यवद्यक्तताभावादव्यक्तमिति गीयते । एषा माहेश्वरी शक्तिर्न स्वतन्त्रा परात्मवत् ॥२१॥ अनया देवदेवस्य शिवस्य परमात्मनः ।
उदितः परमः कालस्तदशाः सर्वजन्तवः ॥२२॥ परात्मवदिति । यथा परमात्मा स्वतन्त्रो नैवमेषा स्वतत्रा । अत एव हि शक्तिरित्युक्तम् । परमः काल इति । द्विविधो हि कालः परमोऽपरमश्चेति । शिवमायासंबन्धरूपः परम इति । वक्ष्यति धुत्तरखण्डे
'कालो मायात्मसंबन्धः सर्वसाधारणात्मकः' इति । स एव कल्पमन्वन्तरसंवत्सरमासाद्यात्मना पदार्थान्परिच्छिन्दनपरः काल इत्युच्यते । तदुक्तम्
'भावि भवदूतमयं कलयति जगदेष कालोऽतः' इति । तदाह-तद्वशाः सर्वेति । मायावदनादिरप्यसौ तदधीननिरूपणतया तयोदित इत्युच्यते ॥ २१ ॥२२॥
सोऽपि साक्षान्महादेवे कल्पितो मायया सदा ।
सर्वे काले विलीयन्ते न कालो लीयते सदा ॥२३॥ अत एव मायावत्तत्संबन्धरूपः कालोऽपि कल्पित इत्याह-सोऽपीति । यथा माया मायादृष्टयैव कल्पिता तथा तत्संबन्धोऽपि । यदाहुराचार्याः
'अस्याविद्यत्यविद्यायामेवाऽऽसित्त्वा प्रकल्प्यते ।
ब्रह्मदृष्टया त्वविधेयं न कथंचन युज्यते' इति । ननु मायाशिवसंबन्धात्मनः कालस्य मायात उदितत्वे जगदिव सोऽपि विनाशीति परिमितत्वात्कथं तत्परिमाणं शिवेनापि ज्ञातुमशक्यमित्युक्तमित्यत आह-सर्वे काल इति । येन कालः परिच्छेत्तव्यः स सर्वः कालेनैव परिच्छिद्यत इति कालस्य परिच्छेदकाभावादपरिमित इत्युक्तमित्यर्थः । उदित इति न जन्माभिमायम् । किंतु मायावत्सदा सद्भावादिति । प्रागसतः सत्तासंबन्धवाचको झुदयशब्दः प्रागभावांशं परित्यज्य सत्तासंबन्धांशमात्रं लक्षयति । यथौ
१ ग. यस्या।
For Private And Personal Use Only