________________
Shri Mahavir Jain Aradhana Kendra
७८
www.kobatirth.org
तात्पर्यदीपिकासमेता
'जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते । तेजस्पापः प्रलीयन्ते तेजो वाय प्रलीयते ॥
Acharya Shri Kailassagarsuri Gyanmandir
वायुः प्रलीयते व्योम्नि तदव्यक्ते प्रलीयते' इत्युक्तदृशेत्यर्थः । तथा विष्णुश्चेति । ब्रह्मविष्णुरुद्राणामवतारमूर्तयः स्वकारणेषु मायाया रज:सत्त्वतमोगुणेषु प्रविशन्ति । स्वयं तु परमेश्वरात्मनैव वर्तन्ते ॥ १५ ॥ १६ ॥ माया च प्रलये काले परस्मिन्परमेश्वरे । सत्यबोधसुखानन्तब्रह्मरुद्रादिसंज्ञिते ॥ १७ ॥
मलये काल इति । प्राकृते प्रतिसंचरे । यस्य नन्तरभावी सर्गों दशमैकादशाध्याययोर्वक्ष्यते - सत्यबोधेति । सत्यज्ञानानन्दैकरसत्वं शिवस्योक्तं द्वितीयाध्याये मन्मायाशक्तिसंकृप्तमित्यत्र ॥ १७ ॥
[१ शिवमाहात्म्यखण्डे
अभेदेन स्थितिं याति हेतुस्तत्र सुदुर्गमः । अन्यथाभानहेतुत्वादियं मायेति कीर्तिता ॥ १८ ॥ आत्मतत्त्वतिरस्कारात्तम इत्युच्यते बुधैः ।
विद्यानाश्यत्वतोऽविद्या मोहस्तत्कारणत्वतः ॥ १९ ॥
सद्वैलक्षण्यदृष्टयेयमसदित्युदिता बुधैः ।
कार्यनिष्पत्तिहेतुत्वात्कारणं प्रोच्यते बुधैः ॥ २० ॥
--
अभेदेन स्थितिं यातीति । यथा तस्या भेदेन नावभासो यथा च नाssत्पन्तिको नाशस्तथोक्तं पञ्चमाध्याये मातृका च त्रिधेत्यत्र । ननु कार्यप्रपञ्चवत्कारणभूता मायाऽपि कस्मान्न विलाप्यते किमिति तयाऽवस्थातव्यम् । उत्तरसर्गार्थमिति चेत् । अथ तस्य स्वमहिमप्रतिष्ठस्य किमुत्तरैरपि सँर्गैस्तत्राऽऽह - हेतुस्तत्र सुदुर्गम इति । तदुक्तमाचार्यैः
'भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमपि चापरे । देवस्यैष प्रभावोऽपमाप्तकामस्य का स्पृहा' इति । उक्तं व्यासेन लोकवत्तु लीलाकैवल्यमिति । विष्णुपुराणेऽपि - 'क्रीडतो बालकस्यैव चेष्टास्तस्य निशामय' इति ।
• ख. घ. 'मिति चा।
ननु कार्यप्रपञ्चस्य कारणे लयोऽस्तु कारणं तु माथैवेति । कुतः । असदव्यक्तादिशब्दैः श्रुतिस्मृतिपुराणेषु कारणस्यानेकधाविप्रतिपत्तिदर्शनादित्याशङ्कय
For Private And Personal Use Only