________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्याय:
सूतसंहिता। कलिः । कृतसंध्यासंध्याशौ पादोनौ त्रेतायाः कृतवदभितो द्रष्टव्यौ । अर्धाकृतौ द्वापरस्य चतुर्थाशः कलेरिति । उक्तं हि सूर्यसिद्धान्ते--
'दिव्यैर्द्वादशसाहस्रभिन्नैरेकं चतुर्युगम् | युगस्य दशमो भागश्चतुनियेकसंगुणः ।।
कमात्कृतयुगादीनां षष्ठोऽशः संध्पयोः स्वकः' । इति ॥ ८॥९॥ १० ॥ ११॥
युगानामेकसप्तत्या मन्वन्तरमिहोच्यते ।
मनवो ब्रह्मणः प्रोक्ता दिवसे च चतुर्दश ॥ १२॥ युगानामिति । उक्तचतुर्युगानाम् ॥ १२ ॥
ब्राह्ममेकमहर्विप्राः कल्प इत्युच्यते बुधैः ।
तावती रात्रिरप्युक्ता ब्रह्मणः पण्डितोत्तमाः॥ १३ ॥ ब्राह्ममेकमहरिति । कल्पादावेकः संधिः । मन्वन्तरावसाने चैकैक इति पञ्चदश संधयः कृतयुगप्रमाणाः कृतचतुर्थांशश्च कलिरिति चतुर्गुणितैः पञ्चदशभिः षष्टिः कलिप्रमाणानि भवन्ति । दशभिः कलिप्रमाणैरेकं चतुर्युगमिति षष्ट्या षट्चतुर्युगानि भवन्ति । चतुर्दशगुणितया चैकसप्तत्या षडूनं सहस्रं भवति । मिलितं युगसहस्रं ब्राह्ममेकमहः स कल्प उच्यत इत्यर्थः । तदवसाने च भूर्भुवः स्वरिति लोकत्रयं लीयते । तद्राव्यवसाने च लोकत्रयं सृज्यते । सा च सृष्टिरनन्तराध्याये वक्ष्यते ॥ १३ ॥
त्रिशतैः षष्टिभिः कल्पैर्ब्रह्मणो वर्षमीरितम् ।
वर्षाणां यच्छतं तस्य द्विपरार्धमिहोच्यते ॥१४॥ त्रिशतैरिति । तावत्तावद्रात्रियुक्तैरित्पर्थः ॥ १४ ॥
ब्रह्मणोऽन्ते मुनिश्रेष्ठा मायायां लीयते जगत् । तथा विष्णुश्च रुद्रश्च प्रकृतौ विलयं गतौ ॥१५॥ ब्रह्मणश्च तथा विष्णोस्तथा रुद्रस्य सुव्रताः।
मूर्तयो विविधाः स्खेषु कारणेषु लयं ययुः॥१६॥ ब्रह्मणोऽन्त इति । स्थूलभूतकार्य जगत्स्थूलभूतेषु तानि सूक्ष्मभूतेषु ।
१ ख. अ|नौ। २ ङ. 'ते । राज्य
For Private And Personal Use Only