________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६
तात्पर्यदीपिकासमेता
[१ शिवमाहात्म्यखण्डे
तरायणमत्र विवक्षितम् । तत्र च सूर्यं सदा देवाः पश्यन्तीति मेषादिमासषटुं देवानामहरिति । एतेन तुलादिमासष्टुं देवानां रात्रिरिति व्याख्येयम् । यद्वाऽत्र दिवाशब्देन सूर्यस्योन्नतकालो गृह्यते । रात्रिशब्देन च तस्य नतकालः । मकरादिमासषङ्कं हि देवान्प्रति सूर्यस्योन्नतकालत्वाद्दिवेत्युक्तम् | कर्कटादिमासषटुं तु तान्प्रति नतकालत्वाद्रात्रिरित्युक्तमिति । तदेवं दक्षिणायनोत्तरायणशब्दौ वा सूर्यस्य निरक्षदेशादक्षिणोत्तरगोलगमनाभिप्रायौ । रात्रिदिवाशब्दौ वा देवान्प्रति सूर्यस्य नतोन्नतकालाभिप्रायाविति सर्वं समञ्जसम् ॥ ६ ॥
मनुष्याणां यथा तद्वद्देवानामपि सूरिभिः । पक्षमासायनाब्दानां विभागः कथितो द्विजाः ॥ ७ ॥
मनुष्याणां पञ्चदश तिथयः पक्षः । पक्षद्वयं चान्द्रो मासः | सूर्यस्यैकराशिभोगस्तु सौरो मासः । राशिषट्मोगोऽयनम् । अयनद्वयं संवत्सर इति । यथा मानुषः संवत्सर एवं देवानां स्वमानेनाहोरात्रस्तदनुसारेणैव पक्षमासायनाव्दा अपि द्रष्टव्या इत्याह- मनुष्याणामिति ॥ ७ ॥
दिव्यैर्द्वादशसाहस्रैर्वर्षेः प्रोक्तं चतुर्युगम् ।
कृतं तत्र युगं विप्राः सहस्राणां चतुष्टयम् ॥ ८ ॥ तस्य संध्या च संध्यांशः प्रोक्तश्चाष्टशताऽनघाः । त्रिभिर्वर्षसहस्रैस्तु त्रेता दिव्यैः प्रकीर्तिता ॥ ९ ॥ कृतार्थं द्वापरः प्रोक्तस्तदर्थं कलिरुच्यते । क्रमात्संध्या च संध्यांशस्तुरीयांशविवर्जितः ॥ १० ॥ त्रेताद्वापरतिष्याणां युगानां मुनिपुङ्गवाः ।
एवं द्वादशसाहस्रं प्रोक्तं विप्राश्चतुर्युगम् ॥ ११ ॥ दिव्यैर्द्वादशेत्यादि । दिव्याब्दानां सहखद्वादशकेन कृतत्रेताद्वापरकलिनामकं युगचतुष्टयं भवति । तत्र द्वादशसहस्रमध्ये चतुः सहस्राण्यष्टौ शतानि चाब्दाः कृतयुगप्रमाणम् । आदाववसाने च शतद्वयं शतद्वयं च संध्या । तत्संनिकृष्टं शतद्वयं शतद्वयं च संध्यांशः । तन्मध्यवर्ति सहस्रचतुष्टयं युगशरीरम् । त्रिभिरित्यादि । कृतप्रमाणं पादोनं त्रेता । कृतार्धं द्वापरः कृतचतुर्थांशः
गयं सं। २ ग. यं च ।
For Private And Personal Use Only