________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः
सूतसंहिता। लश्चान्द्रो मासः । तत्र पितृणां कृष्णाष्टम्यां सूर्योदयः । दर्शोऽहमध्यम् । शुक्लाष्टम्यामस्तमयः । पौर्णमास्यां रात्रिमध्यमिति स चान्द्रोऽहोरात्रः ॥२॥२॥४॥
अहोरात्राणि विप्रेन्द्राः पक्षः पञ्चदशः स्मृतः।
पक्षद्वयेन मासः स्यान्मासैः षभिर्द्विजोत्तमाः ॥५॥ अहोरात्राणि विप्रेन्द्रा इति तिथ्यभिप्रायम् । तेषु हि शुक्लप्रतिपदादिपोर्णमास्पन्तेषु मानवानां शुक्लपक्षव्यवहारः। शेषे कृष्णपक्षव्यवहार इति । 'पक्षद्वयेन मासः स्यात्' इति तु चान्द्रमासाभिप्रायम् । स हि यथोक्तपक्षद्वयात्मकः । सावनस्तु मासो यदा कदाचिदारभ्य त्रिंशत्सूर्योदयात्मकः । सौरस्तु सूर्यस्यैकराशिभोगमात्रात्मक इति न तो पक्षद्वयात्मकत्वेन व्यवह्रियते मासैः षड्भिरित्यारभ्य सौरमानेन ॥५॥
अयनं देऽयने वर्ष क्रमात्ते दक्षिणोत्तरे।
रात्रिर्दिवौकसां पूर्व दिवा चैवोत्तरायणम् ॥ ६॥ __ यद्यपि चान्द्रादीनामपि दक्षिणोत्तरायणे विद्येते तथाऽपि न तयोर्मासषद्वात्मकत्वम् । नापि तहयस्य वर्षात्मकत्वम् । क्रमात्ते इति । कर्कटायनमारभ्य मकरापणपर्यन्तं दक्षिणायनम् । तस्मिन्खलु काले कान्तमण्डलस्योत्तरमवसानमारभ्य दिने दिने सूर्यो दक्षिणत एति मकरायणपर्यन्तम् । तदारभ्य दिने दिने क्रान्ते दक्षिणावसानमारभ्योत्तरत एति कर्कटायनपर्यन्तमिति तदुत्तरायणम् । पूर्व दक्षिणायनं देवानां रात्रिः। उत्तरायणं तेषामहरित्यर्थः । ननु मेषादिराशिषटुं निरक्षदेशादुत्तरतश्चरति तत्रस्थं सूर्यं सदा देवाः पश्यन्ति । अतस्तेषां तदहः । तुलादिराशिषटं निरक्षदेशाइक्षिणतश्चरति तत्रस्थं सूर्यमसुरा नित्यं पश्यन्ति देवा न कदाचिदतो देवानां सा रात्रिः । उक्तं हि सूर्यसिद्धान्ते
'सुरासुराणामन्योन्यमहोरात्रं विपर्ययात्' इति । अत उत्तरायणानुप्रविष्टे मकरकुम्भमीनमासत्रये देवानां सूर्यदर्शनाभावात्कथं सकलमुसरायणं तेषामहरित्युच्यते । तथा कर्कटकसिंहकन्यामासपूक्तदक्षिणायनानुप्रविष्टेषु देवाः सदा सूर्यं पश्यन्तीति तेषां कथं रात्रिरुच्यत इति तत्र ब्रूमः । उक्तानुपपत्तिबलादेवात्र श्लोक उत्तरायणशब्देन मकरादिमासषटुं न गृह्यते । किंतूत्तरगोलभूतं मेषादिमासषट्कम् । तद्धि निरक्षदेशादुत्तरतः स्थितमिति । तत्र वर्तमानः सूर्यो गतेन प्रत्यागतेन च सदा निरक्षदेशादुचरत एतीति तदु
, क. ख. सूर्यस्योदयः ।
For Private And Personal Use Only