________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[शिवमाहात्म्यखण्डे
तात्पर्यदीपिकासमेता अष्टमोऽध्यायः।
नैमिषीया ऊचुःकालसंख्या कथं विद्वन्कथिता कालवेदिभिः ।
कः कालेनानवच्छिन्नो वद कारुण्यतोऽनय ॥१॥ उक्ततीर्थसेवया जनिततत्त्वज्ञानानां मुक्तानामपि कालपरिच्छेदं संसारिभ्यः सकाशादविशेषप्रसङ्गाद्विशेषज्ञानाय परिच्छेदकं कालस्वरूपं तदनवच्छिन्नस्वरूपं च मुनयो जिज्ञासन्ते-कालसंख्या कथमिति ॥ १॥
सूत उवाचकालसंख्या मया वक्तुं न शक्या जन्मकोटिभिः। मुनीन्द्ररपि देवश्च शिवेनापि महात्मना ॥२॥ तथापि संग्रहेणाहं वक्ष्ये युष्माकमादरात् । काष्ठा पञ्चदश प्रोक्ता निमेषाः पण्डितोत्तमाः ॥३॥ तासां त्रिंशत्कला तासां त्रिंशन्मौहूर्तिकी गतिः।
मुहूर्तानां द्विजास्त्रिंशदिवारानं तु मानवम् ॥ ४॥ सर्गप्रलयप्रयाहस्याऽऽनन्त्यादियदिन इयन्मास इयद्वर्ष एव वा काल इति हि परिच्छेदरूपा कालसंख्या भवद्भिर्जिज्ञासिता सा नास्त्येव । असती च सा मया मुनीन्द्रैः शिवेन वा कथं वक्तुं शक्या । नहि नरविषाणस्य परिमाणं केनचिदक्तुं शक्यमित्याह-कालसंख्या मयेति । युगमन्वन्तरकल्पमहाकल्पानां वर्षादिसंख्या चेत्पृच्छयते सा कथ्यत इत्याह । तथाऽपीति । अपरिज्ञातपरिमाणं कल्पादिकं ज्ञापयितुं परिज्ञातपरिमाणं निमेषादिकमारभते-काष्ठा पञ्चदशेति । दिवारानं तु मानवमित्येवमन्तं सावनमानाभिप्रायम् । सौरचान्द्रनाक्षत्रमानेषु मनुष्याणां रात्रिंदिवविभागव्यवहाराभावात् । स हि विभागव्यवहारः सूर्यसावने मानवानाम् । चान्द्रमाने पितृणाम् । सौरमाने देवानाम् । तथाहि सूर्यदर्शनादर्शनोपलक्षितयोहि कालभागयोर्दिवारात्रिशब्दो व्युत्पन्नौ । तौ च सूर्योदयमारभ्य ष्टिघठिकात्मककालमध्ये मनुष्याणां भवतः । चन्द्रद्धिक्षयावच्छिन्नस्तु का
१ ग. एव का। घ. एतावान्काल । ङ. एव हि का। २ क. ख. घ. निमेषमारभते । ३ क.
ख. ग. घ. मतं सा।
For Private And Personal Use Only