________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः७]
सूतसंहिता। श्रीमद्याघ्रपुरं भक्त्या प्राप्तवन्तो मुनीश्वराः। तथाऽन्ये मुनयो व्याघ्रपुरं पूर्वतपोबलात् ॥४९॥ अवापुर्यत्र देवेशः प्रनृत्यत्यम्बिकापतिः ।
अहं व्यासवचः श्रुत्वा श्रद्धया परया सह ॥५०॥ विश्वविज्ञानसागर इति विष्णोरक्तारभेदस्य व्यासस्य विशेषणं तदीयादरविषयभूताया वाराणस्याः सर्वत उत्कर्षाभिप्रायेण ॥४७॥४८॥४९॥५०॥
श्रीमदक्षिणकैलासेऽप्युषित्वा वत्सरं बुधाः। पुण्डरीकपुरे तहच्छ्रीमदृद्धाचले तथा ॥५१॥ वाराणस्यामपि ज्ञानं लब्धवानातशोभनम् । भवन्तोऽपि यथाश्रद्धं वर्तध्वं पण्डितोत्तमाः ॥५२॥ एषामन्यतमे स्थाने विशिष्टे मुक्तिसिद्धये । बहवो वर्तनादेषु विमुक्ता भवबन्धनात् ॥ ५३॥ इति श्रीस्कन्दपुराणे श्रीसूतसंहितायां शिवमाहात्म्यखण्डे मुक्तिसाधनप्रकारो नाम
सप्तमोऽध्यायः॥७॥ अत एव सूतः स्वयमपि दक्षिणकैलासव्याघ्रपुरवृद्धाचलेषु वत्सरं वत्सरमुषित्वा वाराणस्यामवे परमपुरुषार्थं प्राप्तवानस्मीत्याह-श्रीमदक्षिणकैलासेऽपीति ॥५१॥ ५२ ॥ १३ ॥ इति श्रीमत्काशीविलास क्रियाशक्तिपरमभक्त श्रीमत्र्यम्बकपादाब्जसेवापरायणेनोपनिषन्मार्गप्रवर्तकेन माधवाचार्येण विरचितायां
श्रीसूतसंहितातात्पर्यदीपिकायां शिवमाहात्म्यखण्डे मुक्तिसाधनप्रकारो नाम सप्तमोऽध्यायः ॥७॥
-
For Private And Personal Use Only