________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्डे तस्य मुक्तिरयत्नेन सिध्यत्येव न संशयः । स्थाने वर्तनमात्रेण विशिष्टे मानवोऽच्युत ॥ ३९॥ अयनेन विमुच्येत स्वसंसारमहद्रयात् । तस्मादिमुक्तिमन्विच्छन्नयत्नेनैव मानवः ॥४०॥
भजेदन्यतमं स्थानमेतेषां श्रद्धया सह । सूत उवाचइति श्रुत्वा हरिब्रह्मप्रमुखैरमरैरपि ॥४१॥ वेदव्यासेन लक्ष्म्या च सह वेदविदां वराः। प्रणम्य परया भक्त्या भवं अक्तप्रिये रतम् ॥४२॥ विहाय पद्मसंभूतं पाराशर्य सुरानपि । श्रीमद्दक्षिणकैलासं सर्वदेशोत्तमोत्तमम् ॥४३॥ पञ्चयोजनविस्तीर्ण दशयोजनमायतम् । ब्रह्मणा च सरस्वत्या वज्रिणा नीलया तथा ॥४४॥ कालेन हस्तिना चान्यैर्देवगन्धर्वराक्षसैः। मुनिभिः पूजितं स्थानं भुक्तिमुक्तिफलप्रदम् ॥ ४५ ॥ अवाप पद्मया विष्णुः सह सर्वजगत्पतिः । ब्रह्मा वेदविदां मुख्यः श्रीमदृद्वाचलं मुदा ॥ ४६ ॥ यो वा को वेति । प्रागुक्ताधिकारादिवैचियनिबन्धनोऽपि न विशेषः कश्चिदस्तीत्यर्थः ॥ ३४ ॥ ३५ ॥ ३६ ॥ ३७॥ ३८ ॥ ३९ ॥ ४० ॥ ४१॥ ४२ ॥ ४३ ॥ ४४ ॥ ४५ ॥ ४६ ॥
प्राप्तवानाशु भारत्या प्रसन्नः पापनाशनम् । वेदव्यासो मुनिः श्रीमान्विश्वविज्ञानसागरः ॥४७॥ प्राप्तवानादरेणैव श्रीमहाराणसी पुरीम् । तथा सर्वे सुरा विप्राः प्रसन्ना भुक्तिमुक्तिदम् ॥४८॥
१ ङ, भक्तहिते।
For Private And Personal Use Only