SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अध्यायः ७] सूतसंहिता । श्रीमद्दाराणसी पुण्या पुरी नित्यं मम प्रिया । यस्यामुत्क्रममाणस्य प्राणैर्जन्तोः कृपाबलात् ॥ २९॥ Acharya Shri Kailassagarsuri Gyanmandir ७१ यदर्थोऽयं प्रपञ्चस्तमिदानीं तीर्थविशेषप्रभावं वर्णयितुमारभते - तस्मादयनत इत्यादिना ॥ २७ ॥ २८ ॥ २९ ॥ तारकं ब्रह्मविज्ञानं दास्यामि श्रेयसे हरे । तस्यामेव महाविष्णो प्राणत्यागो विमुक्तिदः ॥ ३०॥ प्राणत्याग इति । वक्ष्यमाणतीर्थविशेषेष्वपीति शेषः ॥ ३० ॥ स्थानं दक्षिण कैलास समाख्यं सत्कृतं मया । यत्र सर्वाणि तीर्थानि सर्वलोकगतानि तु ॥ ३१ ॥ सुवर्णमुखरीतोये पवित्रे पापनाशने । मासि मासि व्यतीपाते मघर्क्षे माघमासि च ॥ ३२ ॥ अर्कवारेऽप्यमावास्यां स्नानं कृत्वा महेश्वरम् । श्रीकालहस्तिशैलेशं पूजयेन्मां सुरेश्वरम् ॥ ३३ ॥ तानि क्रमेणाssह — स्थानं दक्षिण कैलासेत्यादिना ॥ ३१ ॥ ३२ ॥ ३३ ॥ ---- For Private And Personal Use Only यत्र संवत्सरं भक्त्या यो वा को वा दिने दिने । दृष्ट्वा दक्षिणकैलासवासिनं करुणानिधिम् ॥ ३४ ॥ भुङ्क्ते तस्य महाविष्णो ज्ञानं तस्य विमुक्तिदम् । जायते मरणे काले तेन मुक्तो भवेन्नरः ॥ ३५ ॥ श्रीमद्व्याघ्रपुरे नित्यं यो वा को वा महेश्वरम् । प्रणम्य दण्डवमौ मासद्दादशकं मुदा || ३६ || तस्य सिद्धा परा मुक्तिर्न हि संशयकारणम् । श्रीमद्वाचले भक्त्या वर्तते वत्सरद्दयम् ॥ ३७ ॥ यो वा को वा महादेवं श्रीमदृद्वाचलेश्वरम् । प्रदक्षिणत्रयं कृत्वा प्रणम्य परमेश्वरम् ॥ ३८ ॥ १ ङ. हरम् । २ ङ. संसारकारणम् ।
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy