________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७०
तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्डे प्रतिबद्धेन किं क्रियत इति चेत् । अनेकजन्मव्यवधानमित्याह-प्रतिबद्धं परिज्ञानमिति । उक्तं हि व्यासेन-ऐहिकमप्यमस्तुतप्रतिबन्धे तदर्शनात्' इति । भगवानप्याह
'अनेकजन्मसंसिद्धस्ततो याति परां गतिम्' इति । इह जन्मनि जन्मान्तरे वा मुक्तिश्चेसिध्यति कियान्विशेष इति चेत् । 'इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः' इति तलवकारोपनिषदि महतो वैषम्यस्य दर्शनादिहापि जायमाने वाऽधिकारिभेदेन वैलक्षण्यमाहविशुद्धमिति । उक्तमुख्याधिकारिणोऽपरोक्षानुभवपर्यन्तं ज्ञानमितरस्य तु स्वा. धिकारतारतम्यन परोक्षमपीत्यर्थः ॥ २५ ॥
अतः सर्वमनुष्याणां नहि मुक्तिरयत्नतः ।
यज्ञदानादिकर्माणि न साक्षान्मुक्तिसिद्धये ॥ २६ ॥ अधिकारवैचित्यमुपसंहरति-अतः सर्वेति । यानि कैश्चिन्मुक्तिसाधनान्युक्तानि तान्यत्यन्तविपकृष्टान्येवेत्याह-यज्ञदानादीति । निष्कामकृतान्यपि हि यज्ञादीनि प्रतिबन्धकपापनिरासद्वारा सत्त्वशुद्धिमात्रं जनयन्ति तेन च विषयदोषदर्शनं ततो वैराग्यं तेन च श्रेपसि जिज्ञासा ततः संन्यासपूर्वकान्मनननिदिध्यासनोपाकृताच्छ्रवणात्तत्त्वज्ञानेनापवर्ग इति । अतस्तेषां परमतत्त्वाभिधानमपि परंपरासाधनताभिप्रायमेव । तथाच-'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन' इति यज्ञादीनां विविदिषामात्रे साधनत्वं न वेदनेऽपि किमुत तत्फले मोक्षे । 'विद्यां चाविद्यां च यस्तद्वेदोभयर सह' इत्यत्राप्यविद्याशब्दाभिधेयस्य कर्मणो विद्यया सहोपायोपेयभावेन वेदन एव सहभावः श्रुतो न पुनरनुष्ठाने । अतो ज्ञानकर्मणोः क्रमसमुच्चय एव । यान्यप्यन्यानि ज्ञानकर्मसमुच्चयवचनानि तान्यप्युक्तरीत्या क्रमसमुच्चयपराण्येव । अतो ज्ञानमेव साधनम् । तच्चाधिकारिवैचिच्यात्साधनप्रयत्नवैचित्र्याच्चानेकतारतम्योपेतमिति प्रकरणार्थः ॥ २६ ॥
तस्मादयत्नतो मुक्तिः सर्वेषां येन हेतुना । तं वदामि महाविष्णो हिताय जगतां शृणु ॥२७॥ सन्ति लोके विशिष्टानि स्थानानि मम माधव । तेषामन्यतमे स्थाने वर्तनं भुक्तिमुक्तिदम् ॥ २८॥
For Private And Personal Use Only