SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः७] सूतसंहिता। अस्ति शूद्रस्य शुश्रूषोः पुराणेनैव वेदनम् । वदन्ति केचिदिद्वांसः स्त्रीणां शूद्रसमानताम् ॥२१॥ शूद्रस्य शुश्रूषोरिति । स्वधर्मनिष्ठस्य द्विजशुश्रूषा हि शूद्रस्य मुख्या वृत्तिः । 'शूद्रस्य द्विजशुश्रूषा तथा जीवन्वणिग्भवेत्' इतिस्मृतेः । पुराणेनैवेति । वेदवाक्य श्रवणस्य निषिद्धत्वात् । 'अथ हास्य वेदमुपशृण्वतत्रपुजतुभ्यां श्रोत्रप्रतिपूरणम्' इति । इदमेवोक्तं व्यासेन 'श्रवणाध्ययनार्थप्रतिषेधात्स्मृतेश्च' इति । स्त्रीणां शूद्रसमानतामिति । यथाऽऽहुः 'स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा । इति भारतमाख्यानं कृपया मुनिना कृतम् ॥ इति । गार्गीमैत्रेय्यादीनामपि श्रुतिवाक्यान्न तत्त्वबोधः किंतु पौरुषेयैरेव वाक्यैर्जातस्तत्त्वावबोध आख्यायिकारूपया श्रुत्या व्यवहृत इत्येतावदिति हि ते मन्यन्त इत्यर्थः ॥ २१ ॥ अन्येषामपि सर्वेषां ज्ञानाभ्यासो विधीयते । भाषान्तरण कालेन तेषां सोऽप्युपकारकः॥२२॥ येषां तु हीनजातीनां पुराणेऽप्यनधिकारस्तेषामपि स्वदेशभाषया तत्त्वविद्यायामस्त्यधिकार इत्याह-अन्येषामिति । नचैव सर्वेषां फलसाम्यम् । का. लसंनिकर्षविप्रकर्षादिकृतवैषम्यसंभवादित्याह-कालेनेति ॥ २२ ॥ येषामस्ति परिज्ञानं विनेह ज्ञानसाधनम् । कल्प्यं तत्साधनं तेषां पूर्वजन्मसु सूरिभिः ॥२३॥ ननु निवृत्तिधर्मश्रवणादिकं विनैव वामदेवादेगर्भस्थस्यैव स्वतो बोधः श्रूयते-'गर्भे नु सन्नन्वेषामवेदम्' इति प्रस्तुत्य गर्भ एवैतच्छयानो वामदेव एवमुवाचेति तत्कथं श्रवणादेः साधनतेति तत्राऽऽह-येषामस्तीति ॥ २३ ॥ मुख्याधिकारिणां नणां प्रतिबन्धविवर्जितम्। ज्ञानमुत्पद्यतेऽन्येषां प्रतिबद्धं विजायते ॥ २४ ॥ सर्वेषां फलसाम्याभावाय वैषम्यान्तरमाह-मुख्याधिकारिणामिति ॥२४॥ प्रतिबद्धं परिज्ञानं नेह मुक्तिं प्रयच्छति । विशुद्धं ब्रह्मविज्ञानं विशुद्धस्यैव सिध्यति ॥ २५॥ For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy