________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८
तात्पर्यदीपिका समेता
[१ शिवमाहात्म्यखण्डे
नीते - तव सर्वजगद्धितमिति । सुलभस्य सुकरस्य सर्वाधिकारस्य च विवक्षिततीर्थजातस्य ज्ञानद्वारा मुक्तिसाधनतां च वक्तुं साक्षान्मोक्षसाधनत्वं ज्ञानस्यैवेत्याह-ज्ञानमेव महाविष्णो इति । 'तमेव विदित्वाऽति मृत्युमेति नान्यः पन्था विद्यतेऽयनाप' इति श्रुतेः ॥ १६ ॥
ज्ञानं वेदशिरोद्धृतमिति मे निश्चिता मतिः । अनेकजन्मशुद्धानां श्रौतस्मार्तीनुवर्तिनाम् ॥ १७ ॥
तदपि ज्ञानमुपनिषद्वाक्यादेवेत्याह-वेद शिरोद्भूतमिति । 'तं त्वौपनिषदं पुरुषं पृच्छामि' इति । 'वेदान्तविज्ञान सुनिश्चितार्थाः' इति श्रुतम् । तस्य तु ज्ञानस्य वक्ष्यमाणोपायरहितैः प्रयत्नातिशयलभ्यतामाह — अनेकजन्मेति । निष्कामकृतानि हि कर्माणि भगवदाराधनद्वारेणैव तत्त्वज्ञानं साधयन्ति । फलं तु तत्त्वज्ञानमन्यद्वा शिवप्रसादादेव भवति । उक्तं हि -- फलमत उपपत्ते - रिति ॥ १७ ॥
जायते तच्छिवज्ञानं प्रसादादेव मे हरे । निवृत्तिधर्मनिष्ठस्तु ब्राह्मणः पङ्कजेक्षण ॥ १८ ॥
शिवज्ञानमिति । मदीयनिष्कलतत्त्वज्ञानमित्यर्थः । उक्तज्ञानसाधनेषु तारतम्येनाधिकारिविभागमाह - निवृत्तिधर्मेति । निवृत्तिधर्मः संन्यासपूर्वकं श्रवणमननादिकम् । याज्ञवल्क्यः प्रवत्राज | 'द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इति श्रूयते ॥ १८ ॥
उक्तो मुख्याधिकारीति ज्ञानाभ्यासे मया हरे । अन्ये च ब्राह्मणा विष्णो राजानश्च तथैव च ॥ १९॥ वैश्याश्व तारतम्येन ज्ञानाभ्यासेऽधिकारिणः । द्विनस्त्रीणामपि श्रौतज्ञानाभ्यासेऽधिकारिता ॥ २० ॥
अन्ये चेति । अकृतसंन्यासादिकाः । तारतम्येनेति । न्यूनाधिकभावेन तरतमशब्दाभ्यां तरतमप्रत्ययवाचकाभ्यां तदर्थावतिशय लक्ष्येते । तत्रापि द्वयोरतिशयात्तरवर्थाद्वहूनामतिशयस्तमबर्थोऽधिक इति तद्भावस्तारतम्यम् । द्विजस्त्रीणामिति । 'अथ हैनं गार्गी वाचक्नवी पमच्छ' इत्यादौ गार्ग्यदिविद्याव्यचहारदर्शनात् । अस्तिपदस्य पूर्वार्धेन संबन्धः ॥ १९ ॥ २० ॥
१ ख. ज्ञानसाधनं । २ ङ. "यसहितप्र |
For Private And Personal Use Only