________________
Shri Mahavir Jain Aradhana Kendra
___www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भध्यायः७]]
सूतसंहिता। प्रणम्य दण्डवगत्या पर्यपृच्छदिदं बुधाः। सोऽपि नारायणः श्रीमानतीव प्रीतमानसः ॥ ८॥ समुत्थाय महालक्ष्म्या ब्रह्मणा च सह।
वेदव्यासेन कैलासमगमत्परमर्षयः ॥९॥ सूतस्त्वाख्यापिकयैवोत्तरमाह-पुरा नारायणं व्यास इत्यादिना ॥ ७ ॥ ॥८॥९॥
तत्र देव्या समासीनं नीलकण्ठमुमापतिम् ।
तेजसा भासयन्सर्वं चतुर्वर्गफलप्रदम् ॥१०॥ भासयनिति द्वितीयार्थे प्रथमा । तेजसा सर्व भासयन्यश्चतुर्वर्गफलपदस्तमिति प्रकृत्यर्थविशेषणं वा शोभनं पठतीतिक्रियाविशेषणवत् । विष्णुर्वा भासयनस्तु ॥ १०॥
ईश्वराणां च सर्वेषामीश्वरं परमेश्वरम् । पति पतीनां परमं देवतानां च दैवतम् ॥ ११॥ स्मृतिमात्रेण सर्वेषामभीष्टफलदायिनम् । सत्यं विज्ञानमानन्दं संपूर्ण सर्वसाक्षिणम् ॥ १२॥ प्रणम्य परया भक्त्या पप्रच्छेदं जगद्धितम् । महादेवोऽपि सर्वज्ञः सर्वभूतहिते रतः ॥ १३ ॥
प्राह सर्वामरेशानो वाचा मधुरया बुधाः। ईश्वर उवाच
साधु साधु महाविष्णो भवता पृष्टमच्युत ॥ १४ ॥ पुरा देवी जगन्माता सर्वभूतहिते रता।
मामपृच्छदिदं भक्त्या प्रणम्य परमेश्वरी ॥ १५॥ यतः सर्वेषामीश्वराणामीश्वरोऽतः परमेश्वरः ॥११॥१२॥ १३ ॥ १४ ॥१५॥
तदिदं कृपया वक्ष्ये तव सर्वजगद्वितम् ।
ज्ञानमेव महाविष्णो मोक्षसा ते ॥ १६॥ विदितप्रश्नाभिप्रायः शिवः मुलभं सर्वाधिकारं च मुक्तिसाधनं वक्तुं प्रतिजा
For Private And Personal Use Only