________________
Shri Mahavir Jain Aradhana Kendra
अध्यायः ७१
www.kobatirth.org
सूतसंहिता ।
सप्तमोऽध्यायः ।
Acharya Shri Kailassagarsuri Gyanmandir
नैमिषीया ऊचुःभगवञ्श्रोतुमिच्छामः सर्वतत्त्वविशारद । केचित्केवलविज्ञानं प्रशंसन्ति विमुक्तये ॥ १ ॥
शिवेनाभिनय रूपोपदेशेन विशदीकृतपरतत्त्वा जीवन्मुक्ताः कृतकृत्या अपि मुनयः सकललोकोपकाराय सुलभं मुक्तिसाधनं जिज्ञासमानाः संशयबीजभूता बुद्धेर्विप्रतिपत्तीरुदाहरन्ति - भगवञ्श्रोतुमिच्छाम इति । केवलविज्ञानमिति वेदान्ततत्वविदः ॥ १ ॥
६५
केचित्समुचितं कर्म ज्ञानेन ब्रह्मवित्तम । केचिद्दानं प्रशंसन्ति तथा केचिद्व्रतं बुधाः ॥ २ ॥ समुचितं कर्मेति । तदेकदेशिनः
'विद्यां चाविद्यां च यस्तद्वेदोभयः सह । अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते' ॥ 'यथाऽन्नं मधुसंयुक्तं मधु चानेन संयुतम् । एवं तपश्च विद्या च संयुक्तं भेषजं महत्' |
इत्याद्याः श्रुतिस्मृतयो मोक्षकर्मसमुच्चया इति मन्यमानाः । केचिद्दानमिति 'किं भगवन्तः परमं वदन्ति' इति प्रस्तुत्य 'दाने सर्वं प्रतिष्ठितं तस्माद्दानं परमं वदन्ति' इति श्रुतौ श्रद्धधानाः । केचिद्रतमिति 'न कंचन वसतौ प्रत्याचक्षीत तहतं तस्माद्यया कया च विधया बह्वनं प्राप्नुयात्' 'अन्नं न निन्द्यातद्व्रतम्' इत्यादि पश्यन्तः ॥ २ ॥
केचिद्यज्ञं प्रशंसन्ति तपः केचित्तपोधनाः । ब्रह्मचर्याश्रमं केचिद्रार्हस्थ्यं भुवि केचन ॥ ३ ॥
For Private And Personal Use Only
केचिद्यज्ञमिति । 'पज्ञेन हि देवा दिवं गताः' इत्यारभ्य 'तस्माद्यज्ञं परमं वदन्ति' इति श्रुतिमाद्रियमाणाः । तपः केचिदिति । तप इति 'तपो नानशनात्परम्' इत्यारभ्य 'तस्मात्तपः परमं वदन्ति' इति श्रुतिमुदाहरन्तः । ब्रह्मचर्याश्रममिति 'येषां तपोत्रह्मचर्यम्' । 'नैष्ठिको ब्रह्मचारी वा वसेदामरणान्ति
१ क. ख. पुस्तकयोस्तस्मादित्यारभ्येत्यादिपर्यन्तो ग्रन्थो नहि ।