________________
Shri Mahavir Jain Aradhana Kendra
૬૪
www.kobatirth.org
तात्पर्यदीपिका समेता
पूजयामास पुष्पेण पत्रेणैवोदकेन च । एतस्मिन्नन्तरे विप्राः शिवस्य परमात्मनः ॥ ५३ ॥ प्रसादाच्छिवभक्तानां पूजया परया तथा । अवाप परमां मुक्तिं मुनिः श्वेतो महामतिः ॥ ५४ ॥ बहुना किमुक्तेन ब्राह्मणा वेदवित्तमाः । पूजया शिवभक्तानां भोगमोक्षौ न चान्यतः ॥ ५५ ॥ इति श्रुत्वा महात्मानो नैमिषारण्यवासिनः । सादरं पूजयामासुः शिवभक्ताननेकधा ॥ ५६ ॥ पूजयामासेति । जलं समय पूजयामास 'ल्यब्लोपे पञ्चमी'* तेनैव च कारन तज्जलं लोके पूजितमभूत् । तेनैव निमित्तेन सा नद्यपि नाम्ना श्वेतनदी - त्युक्ताऽभवदित्यर्थः ॥ ४९ ॥ ५० ॥ ५१ ॥ ५२ ॥ ५३ || ५४ || ५५ || ५६ ॥ पूजया शिवभक्तानां प्रसन्नः परमेश्वरः । ननर्त पुरतस्तेषां मुनीनामम्बिकापतिः ॥ ५७ ॥ मुनयो देवदेवस्य शंकरस्य शिवस्य तु । दृष्ट्वाऽऽनन्दमहानृत्तमवशा अभवन्मुदा ॥ ५८ ॥ इति श्रीस्कन्दपुराणे श्रीसूतसंहितायां शिवमाहात्म्यखण्डे शिवभक्तपूजाविधिर्नाम षष्ठोऽध्यायः ॥ ६ ॥
B
Acharya Shri Kailassagarsuri Gyanmandir
ननर्तेति । अभिनयेनैव परानन्दसाक्षात्कारोपदेशो नृत्ताभिप्राय इति प्रागेव व्याख्यातम् । तेनोपदेशेन जनितसाक्षात्काराणां मुनीनां बाह्यविषयास्फुरणेन तत्परवशतानुवृत्तिमाह दृष्ट्वाऽऽनन्द महानृत्तमिति ।। ५७ ।। ५८ ।।
[१शिवमाहात्म्यखण्डे
इति श्रीमत्काशीविलासक्रियाशक्तिपरमभक्त श्रीमत्रयम्बकपादाब्ज से - वापरायणेनोपनिषन्मार्गप्रवर्तकेन माधवाचार्येण विरचितायां श्री सूतसंहिता तात्पर्यदीपिकायां शिवमाहात्म्यखण्डे शिवभक्त - पूजाविधिर्नाम षष्ठोऽध्यायः ॥ ६ ॥
For Private And Personal Use Only
* एतद्व्याख्यानानुरोधेन मूले मणिमुक्तानदीजला दितिपञ्चम्यन्त एव पाठोऽवगम्यते ।