SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः६] सूतसंहिता। प्रदत्त्वा शिवभक्तानां विमुक्तः कर्मबन्धनात् । तस्य बन्धुजनाश्चैव शिवभक्तस्य पूजया ॥४२॥ अनायासेन संसारादिमुक्तास्तत्र सुव्रताः। अस्मिन्देशे प्रदत्तं यन्मुष्टिमात्रमपि द्विजाः ॥४३॥ तदनन्तं भवत्येव नात्र कार्या विचारणा । अदत्त्वा मुष्टिमात्रं यो देशेऽस्मिन्मुनिसत्तमाः॥४४॥ यो भुङ्क्ते तस्य संसाराबहि मुक्तिः कदाचन । अगस्त्यशिष्यो धर्मिष्ठः श्वेताख्यो भगवान्मुनिः॥४५॥ वैश्यपुत्रस्य वैश्यस्य बन्धूनामपि मुव्रताः। श्रुत्वा मुक्तिमगस्त्येन प्रेरितो मुनिसत्तमाः ॥ ४६॥ प्राप्यतच्छ्रद्धया स्थानं श्रीमद्धाचलाभिधम् । मणिमुक्तानदीतोये स्नानं कृत्वा समाहितः॥४७॥ अर्कवारे तथाऽष्टम्यां पर्वण्याःदिने तथा । मघः च महादेवं श्रीमदृवाचलेश्वरम् ॥४८॥ नीरोगतां गतः। निवृत्तो ब्रह्मराक्षस इति । न केवलं परमफलमपवर्ग एवावान्तरफलमारोग्यादिकमपि शिवभक्तपूजया भवतीत्यर्थः ॥ ३९ ॥४०॥ ४१ ॥ ४२ ॥ ४३ ॥ ४४ ॥ ४५ ॥ ४६॥ ४७ ॥ ४८ ॥ पूजयामास धर्मात्मा मणिमुक्तानदीजलैः । तजलं पूजितं तेन श्वेतेनैवाभवनदी ॥४९॥ नाम्ना श्वेतनदीत्युक्ता सर्वपापविनाशिनी । पुनः श्वेतो मुनिः श्रीमान्श्रद्धया परया सह ॥५०॥ पूजयामास धर्मज्ञः शिवभक्ताननेकधा। देवदेवो महादेवः श्रीमदृद्धाचलेश्वरः॥५१॥ सांनिध्यमकरोत्तस्य भक्तानां पूजया तथा। मुनिश्च देवदेवेशं श्रीमदृद्धाचलेश्वरम् ॥५२॥ For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy