________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्ड "अदत्त्वा मुष्टिमात्रं यो देशेऽस्मिन्मुनिपुङ्गवाः ।
यो भुते तस्य संसारानहि मुक्तिः कदाचन" इति ।। 'पूजया शिवभक्तानां भोगमोक्षौ च नान्यतः' इति ॥ २७ ॥ २८ ॥ २९ ॥ ३० ॥ ३१॥ ३२ ॥ ३३ ॥ सूत उवाच
एवमुक्तस्तु वैश्योऽपि ब्राह्मणेन समाहितः । सहपुत्रेण चार्थेन भार्यया बन्धुबान्धवैः ॥३४॥ श्रीमद्धाचलं पुण्यं समागत्य मुनीश्वराः।
मणिमुक्तानदीतोये महापापविनाशने ॥ ३५ ॥ बन्धुबान्धवैरिति । बन्धूनां संबन्धिनो बान्धवाः । बन्धुभिस्तद्वन्धुभिश्चेत्यर्थः ॥ ३४ ॥ ३५॥
स्रानं कृत्वा महादेवं श्रीमदृद्धाचलेश्वरम् । भक्त्या प्रदक्षिणीकृत्यं नित्यमष्टोत्तरं शतम् ॥३६॥ मनोरमं मठं कृत्वा दत्त्वा तच्छिवयोगिने । नित्यं प्रपूजयामास शिवभक्तानतिप्रियः ॥ ३७॥ धनेन धान्येन तिलेन तण्डुलैस्तथैव तैलेन तथोदकेन च । दुकूलपुष्पाभरणैरपि दिजा मनोनुकूलेन च पूजनेन ॥३८॥ अष्टोत्तरं शतम् । वारानिति शेषः ॥ ३६ ॥ ३७ ॥ ३८ ॥
एवं संवत्सरेऽतीते पुत्रो नीरोगतां गतः। पूजया शिवभक्तानां निवृत्तो ब्रह्मराक्षसः॥३९॥ स पुनः शिवभक्तेभ्यः प्रदत्त्वा धनमर्जितम् । अस्मिन्देशे विमुक्तोऽभूत्पूजया परयाऽनया ॥४०॥ पिता तस्य महाधीमान्देशस्यास्य तपोधनाः। ज्ञात्वा माहात्म्यमाहादात्सर्वस्वं वेदवित्तमाः॥४॥
१ क. ख. निसत्तमाः । २ ख. नान्यथेति । ३ ङ. 'त्य शिवम ।
For Private And Personal Use Only