________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्याय ः ६ ]
सूतसंहिता ।
श्रुत्वा वृत्तं द्विजस्तस्य ब्राह्मणैः पण्डितोत्तमैः । विचार्य सुचिरं कालं विनिश्चित्याब्रवीद्विजाः ॥ २६ ॥
प्रदत्वेति | संज्ञापूर्वकस्य विधेरनित्यत्वाद्वयबभावः ॥ १९ ॥ २० ॥ २१ ॥ २२ ।। २३ ।। २४ ।। २५ ।। २६ ।।
Acharya Shri Kailassagarsuri Gyanmandir
ब्राह्मण उवाच -
श्रीमदृद्धाचलं नाम स्थानं सर्वनिषेवितम् । सर्वोपद्रवनाशाय शंकरेण विनिर्मितम् ॥ २७ ॥ ब्रह्मविष्ण्वादिभिर्नित्यं सेवितं सर्वदाऽऽदराव | नराणां दर्शनादेव वत्सराद्भुक्तिमुक्तिदम् ॥ २८ ॥ अल्पदानेन सर्वेषां महादानफलप्रदम् । ब्रह्महत्यासुरापानस्वर्णस्तेयादिनाशनम् ॥ २९ ॥ अगस्त्येन च रक्षार्थ लोकानां पूजितं पुरा । मणिमुक्तानदीतीरे सर्वतीर्थसमावृते ॥ ३० ॥ अस्ति तत्सहपुत्रेण समागत्य मम प्रियः । नद्यामस्यां स्वपुत्रेण सह स्नात्वा दिने दिने ॥ ३१ ॥ श्रीमदृद्धाचलेशानं दण्डवत्प्रणिपत्य च । कृत्वा प्रदक्षिणं भक्त्या शतमष्टोत्तरं हरम् ॥ ३२ ॥ प्रसादयित्वा सद्वैश्य ब्राह्मणं चान्यमेव च । शिवभक्तं समाराध्य स्थानेऽस्मि श्रद्धया सह || पूजया शिवभक्तस्य पुत्रमुद्धर यत्नतः ॥ ३३ ॥
६१
वाराणसीसोमनाथव्याघ्र पुरवृद्धाचललक्षणानि महत्तमानि तीर्थानि प्राप्तानामपि तद्धलाल्लब्धविवेकानाभन्ततः शिवभक्तपूजयैव परमपुरुषार्थप्राप्तिर्जातेति पुरावृत्तचतुष्टयोदाहरण तात्पर्यम् । अत एव हि तदभावे तेषामपि न फलवत्तेति वक्ष्यति -
१. न. प्रिय । ग. प्रिया । २ क. ख. ग. मन्तः शि
For Private And Personal Use Only