________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तात्पर्यदीपिकासमेता शिवमाहात्म्यखण्डे सर्वस्वं शिवभक्तेभ्यः प्रदत्त्वा श्रद्धया सह । पूजया शिवभक्ताना तथा मुक्तिमवाप्तवान् ॥१६॥ पुत्रस्तृतीयो वैश्यस्य प्रोज्झिताशेषबान्धवः । अन्यायेनैव मार्गेण वर्तमानश्चिरं दिजाः ॥ १७॥ महाधनपतिर्भूत्वा पूर्वपुण्यबलेन सः।
श्रीमयाघ्रपुरं पुण्यं समागत्य द्विजोत्तमाः ॥१८॥ तत्पसादवतामेव सकलपाणिसाधारणावपि जन्ममृत्यू भयहेतुत्वेन भासते इत्याह-जन्ममृत्युभयेति । श्रूयते हि-विवेकिन नाचिकेतसं प्रति संतुष्टस्य मृत्योर्वचनम्
'न सांपरायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् । अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते में' इति ।। १२ ॥ १३ ॥ १४ ॥ १५॥१६॥ १७ ॥ १८ ॥
अन्नपानं तथा वस्त्रं चन्दनं पुष्पमेव च ताम्बूलं शिवभक्तेभ्यः प्रदत्त्वा श्रद्धया सह ॥ १९॥ संवत्सरत्रयं कृत्वा पूजामेव द्विजोत्तमाः। पूजया शिवभक्तानां विमुक्तः कर्मबन्धनात् ॥२०॥ वैश्यपुत्रश्चतुर्थोऽपि ब्राह्मणानविचारतः। हत्वा सर्वधनं तेषां समादाय मुनीश्वराः ॥२१॥ विटानां च नटानां च गायकानां तथैव च । मूर्खाणामपि दत्त्वा स सदा वेश्यापरोऽभवत् ॥२२॥ स पुनः सर्वरोगा” गृहीतो ब्रह्मरक्षसा। एवं चिरगते काले पिता तस्य महाधनः ॥२३॥ पुत्रस्नेहेन संतप्तः सत्वरं विजपुङ्गवम् । सर्वशास्त्रार्थतत्त्वज्ञं समागत्य मुनीश्वराः ॥ २४ ॥ प्रणम्य दण्डवद्विप्रं दत्त्वा तस्मै महाधनम् । पुनर्विज्ञापयामास पुत्रवृत्तमशेषतः ॥२५॥
For Private And Personal Use Only