SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः६] सूतसंहिता। अन्नपानप्रदानं च प्रोक्ता पूजा गरीयसी । अर्थदानं च पूजा स्याहस्त्रदानमपि दिजाः ॥६॥ सक्वन्दनादिदानं च वनितादानमेव च । भूमिदानं च गोदानं तिलदानमपि विजाः ॥ ७ ॥ जलपात्रप्रदानं च गृहदानं तथैव च । तालवृन्तप्रदानं च पात्रदानं तथैव च ॥ ८॥ छत्रपादुकयोर्दानं शय्यादानं तथैव च । शिवभक्तस्य पूजेति प्रवदन्ति विपश्चितः ॥९॥ प्रपञ्चपति-शुद्धमित्यादिना ॥ ४॥५॥ ६ ॥ ७॥ ८ ॥९॥ पुरा कश्चिदहिजा वैश्यः समृद्धोऽभून्महीतले। तस्य पुत्राः समुत्पन्नाश्चत्वारो वेदवित्तमाः ॥१०॥ संग्रहविवरणाभ्यामभिहितायां पूजायामाश्चासातिशयजननाय पुरावृत्तान्युदाहरति-पुरा कश्चिदित्याचध्यायशेषेण ॥ १० ॥ तेषां ज्येष्ठतमः पुत्रः सत्यवादी महाधनः । सर्वभूतानुकम्पी च ब्रह्मचर्यपरायणः ॥ ११॥ सत्यदयाब्रह्मचरेव शिवभक्तिर्लभ्येत्याह-सत्यवादीति ॥ ११ ॥ शिवभक्तः सदा विप्राः प्रसन्नो नियताशनः । जन्ममृत्युभयाक्रान्तस्त्वरमाणो विमुक्तये ॥ १२ ॥ श्रीमहाराणसीमेय ब्रह्मविष्ण्वादिसेविताम् । स्वधनं शिवभक्तेभ्यः प्रदत्त्वा श्रद्धया सह ॥ १३ ॥ पूजया शिवभक्तानां विमुक्तः कर्मबन्धनात् । द्वितीयो वैश्यपुत्रस्तु धनिकोऽतीव सुव्रताः ॥ १४ ॥ सोमनाथं महास्थानं सर्वकामफलप्रदम् । समागत्य सह स्वस्य भार्यया वेदवित्तमाः॥१५॥ १ ग. अर्घ्यदानं । २ ग. "न्ति हि पण्डिताः। ३ ग. ङ. 'श्व ध। For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy