________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१शिवमाहात्म्यखण्डे
तात्पर्यदीपिकासमेता
षष्ठोऽध्यायः।
नैमिषीया ऊचुःभगवशिवभक्तस्य कथं पूजा प्रकीर्तिता।
फलं च कीदृशं प्रोक्तं पूजायास्तदाऽऽदरात् ॥१॥ वेदेन मुख्यतया दर्शितसंवित्पूजाविधौ ये न समर्थास्तेषामपि सामर्थ्यातिरनायासेन तत्फलप्राप्तिश्च यया शिवभक्तपूजया भवति सा कीदृशीति मुनयः पृच्छन्ति-भगवनिति । अष्टविधा भक्तिस्तन्मध्येऽपि शिवभक्तपूजैव प्रथमत उक्ता शिवपुराणे
'मद्भक्तजनवात्सल्यं पूजायां चानुमोदनम् । स्वयमप्यर्चनं भक्त्या मदर्थ चाङ्गचेष्टितम् ।। मत्कथाश्रवणे भक्तिः स्वरनेत्राङ्गविक्रिया।
मन्नामकीर्तनं नित्यं यश्च मां नोपजीवति' इति ॥ १ ॥ सूत उवाचवक्ष्ये पूजाविधि विप्राः शिवभक्तस्य सादरम् ।
शृणुध्वं श्रद्वयोपेताः कुरुध्वं यत्नतः सदा ॥२॥ __ अल्पेन सुकरेणोपायेन परमपुरुषार्थः कथं सिध्येदित्यनाश्वासात्तच्छ्रवणे करणे वाऽनादरो न विधेय इत्याह-शृणुध्वं श्रद्धयोपेता इति ॥ २ ॥
येन केन प्रकारेण शिवभक्तस्य जायते ।
मनस्तृप्तिस्तथा कुर्यात्पूजा सैव मयोदिता ॥३॥ संग्रहेण पूजामाह-येन केनेति ।। ३ ।।
शुद्धतोयं समादाय शिवभक्तस्य सादरम् । पादं प्रक्षालयेत्साऽपि पूजा विप्रा गरीयसी ॥४॥ तैलाभ्यङ्गं तथा पूजां प्रवदन्ति मनीषिणः । गात्रमर्दनमप्यस्य शिवभक्तस्य सुव्रताः ॥५॥ १ क. ख. ग. भगवञ्शिवभक्तस्येति । २ ख. ति ॥१॥ वक्ष्य इति । । ३ गणे वा । ४ घ. ङ, शुद्धं तो।
For Private And Personal Use Only