SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः५] सूतसंहिता। स्वानुभूत्या स्वयं साक्षात्स्वात्मभूतां महेश्वरीम् । पूजयेदादरेणैव पूजा सा पुरुषार्थदा ॥ १९॥ । परित्यज्य कथं तिष्ठेदित्यत आह-स्वानुभूत्येति । प्रत्ययानामप्यनवमासे परानन्दैकरसस्वप्रकाशसंविदात्मना स्वयमपरोक्षतयाऽवभासमानोऽवतिष्ठतीति । इयं हि संविदः परमा पूजा । एषा च सकलसंसारकारणाविद्यानिरासेन यावदारम्भककर्मसंस्कारानुवृत्तिस्तावज्जीवन्मुक्तिलक्षणं तनिवृत्तौ परकैवल्यलक्षणं च पुरुषार्थ ददातीत्यर्थः ॥ १९ ॥ पूजाविधिर्मया शक्तेः प्रोक्तो वेदैकदर्शितः। पूजयध्वं भवन्तोऽपि मुदा तामुक्तवर्मना ॥ २० ॥ इति श्रीस्कन्दपुराणे श्रीसुतसंहितायां शिवमाहात्म्यखण्डे शक्तिपूजाविधिर्नाम पञ्चमोऽध्यायः ॥५॥ वैदैकदर्शित इति । श्वेताश्वतरे ध्यानयोगस्यैव परशक्तिसाक्षात्कारहतुतोक्ता 'ते ध्यानयोगानुगता अपश्यन्देवात्मशक्तिं स्वगुणैनिगूढाम्' इति । एको मुख्पः केवलो वा संदर्शित एकदर्शितः । वेदेनैकेन दर्शित इति विग्रहे 'पूर्वकालै कसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन' इति प्रथमानिर्देशादेकशब्दस्यैव पूर्वनिपात एकवेददर्शित इति स्यात् । पूजयध्वमितिमध्यमपुरुषेणाऽऽक्षिप्तस्य युष्मच्छ. ब्दस्यापिनाऽन्वयः । भवन्त इति तु प्रथमानिर्देशे शत्रन्तम् । यूयमपि तां संविदमुक्तवर्मना तद्रूपाः सन्तोऽलभ्यलाभनिबन्धनया मुदोपेताः पूजयध्वमित्यर्थः॥ २० ॥ इति श्रीमत्काशीविलास क्रियाशक्तिपरमभक्तश्रीमत्रयम्बकपादाब्जसेवापरायणेनोपनिषन्मार्गप्रवर्तकेन माधवाचार्येण विरचितायां श्रीसूतसंहितातात्पर्यदीपिकायां शिवमाहात्म्यखण्डे शक्तिपूजा विधिर्नाम पञ्चमोऽध्यायः ॥५॥ For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy