SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५६ तात्पर्यदीपिकासमेता [१ शिवमाहात्म्यखण्डे साक्षिणीमिति । साक्ष्यप्रपञ्चोल्लासविरहेऽपि साक्षित्वं स्वरूपोपरोक्षाभिप्रायं तदुल्लाससमयभावि वा तद्विरहदशायामसदप्युपलक्षणत्वेनोपादीयते ॥ १६ ॥ संविधाचकशब्देन संविद्रूपामनाकुलः । अर्चयेदादरेणैव शिवामादौ महामतिः ॥ १७ ॥ निरस्तसमस्तोपाधौ निर्विकल्पिकायां संविदि चित्तमवतारयितुमुपायक्रममाह - संविद्वाचकेति | संविद्वाचकशब्दाः प्रणवत्ल्लेखादिमन्त्राः । प्रणवो - कारोकारमकारैर्जाग्रत्स्वप्र सुषुप्तिसाक्षिणीं बिन्दुनादशक्तिशान्तैश्च तुरीयतुरीयातीतशक्तिशान्तात्मिकां संविदं प्रतिपादयन्निष्प्रपञ्चसंविदि पर्यवस्पति । एवं Regarमोsपि हकाररेफेकारबिन्दुनादशक्तिशान्तलक्षणैः सप्तभिर्मार्गैरिति । अनयोश्चैते भागा आगमे प्रदर्शिताः www Acharya Shri Kailassagarsuri Gyanmandir 'अकारश्चाप्युकारश्च मकारी बिन्दुरेव च । नादः शक्तिश्व शान्तश्च तारभेदाः प्रकीर्तिताः ॥ हकारो रेफ ईकारी बिन्दुनादौ तथैव च । शक्तिशान्तौ च संप्रोक्ताः शक्तेर्भेदास्तु समेधा' इति ॥ संविद्रूपामिति | संविदेव हि हृल्लेखामन्त्रप्रतिपाद्या देवतोक्ता 'बोधस्वरूपवाची संवित्तत्रैव देवता गुरुभिः' इति । प्रणवस्य तु संविद्वाचकता सकलश्रुतिस्मृतिपुराणेतिहासैरुद्धोष्यत एव । अत आदौ प्रथमावस्थायां विक्षेपकविषयव्यावृत्तेन चेतसा यथोक्तमन्त्ररूपैः संविद्वाचकशब्दैर्निर्विकल्पायां संविद्यवतरेदित्यर्थः ॥ १७ ॥ पुनः समस्तमुत्सृज्य स्वपूर्णां परसंविदम् । स्वात्मन्त्रैवानुसंधाय पुनस्तच विसर्जयेत् ॥ १८ ॥ अत्र योगे निष्णातस्यानन्तरकक्षामाह - पुनः समस्तमितिपादत्रयेण । आलम्ब - नमात्रपरित्यागेन जागरादिक्रमपरित्यागेन च परमायामेव संविदि प्रत्ययावृत्तिं कृत्वेत्यर्थः । तृतीयां कक्षामाह — पुनस्तच्च विसर्जयेदिति । इत्थमनुसंधानेन साक्षात्कृतपरसंवित्स्वरूपः स्वयं तदात्मा भूत्वा ध्यानध्यातृध्येयविभागानुसंधानमपि परित्यजेदित्यर्थः । द्वितीयकक्षायां हि प्रत्यया अप्यनुसंधीयन्ते । इह तु स्वरूपतः सतोऽपि ताननुसंधाय प्रत्येतव्यमेवानुसंधीयत इत्येतावानेव विशेषः । प्रत्ययस्वरूपस्याप्यभावे तु सुषुप्तितः समाधेरविशेषापातः ॥ १८ ॥ १ ङ. 'पापरोक्ष्यामि । २ ङ. मँचेति । ३ ग० रुद्बोध्यत । ४ ग. स्वपूर्ण । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy