SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः५] सूतसंहिता। त्मिका या सा साधारेत्याह-साधारेति । आधारकल्पितमन्तरेग साक्षात्तस्यैवानुसंधानं निराधारा । अत एव महत्तरेत्युक्तम् ॥ ११॥ साधारा यातु साधारे निराधारा तु संविदि। आधारे वर्णसंस्कृप्तविग्रहे परमेश्वरीम् ॥ १२ ॥ आराधयेदतिप्रीत्या गुरुणोक्तेन वर्मना। या पूजा संविदि प्रोक्ता सा तु तस्यां मनोलयः॥१३॥ कल्पिताधारस्वरूपमाह-आधार इति । मूलाधारमुखोद्गतबिसतन्तुनिभषभाप्रभावितमुधियाधारविस्तृतलिपिजाताहितमुखकरचरणादिकायां मुद्राक्षमालामृतकलशपुस्तकहस्तायां मूर्ती संविद्यावाहनादिभिराराधयेदित्यर्थः । सा तु तस्यामिति तुशब्देनाऽऽधारवन्मानसोपचारकल्पनाया अपि विरहलक्षणं वैल. क्षण्यमाह । किं तस्याः पूजाया रूपमित्यत आह-तस्यां मनोलय इति । विषयान्तरव्यावृत्त्या तदेकविषयचित्तप्रवाहानुवृत्तिरित्यर्थः ॥ १२ ॥ १३ ॥ संविदेव परा शक्तिर्नेतरा परमार्थतः। अतः संविदि तां नित्यं पूजयेन्मुनिसत्तमाः॥१४॥ कथमस्या निराधारतेति चेत्पूज्यतदधिष्ठानयोरात्यन्तिकानेदविरहावित्याहसंविदेवेति । शक्तिस्वरूपं तु 'वक्ष्ये पूजाविधि शक्तेः परायाः' इत्यत्रोक्तम् । शक्तिशक्तिमतेंदव्यवहारोऽप्यौपाधिकादेव भेदान वास्तवादित्याह-नेतरेति । अत एवातः संविदि तां नित्यमित्यपि भेदव्यवहार आधारान्तरविरहनिबन्धन एवेति । स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिनि' इतिवत् ॥ १४ ॥ संविद्रूपातिरेकेण यत्किंचित्प्रतिभासते । स हि संसार आख्यातः सर्वेषामात्मनामपि ॥ १५॥ उक्ते निराधाराया महत्त्वे संसारसागरोत्तारणहेतुत्वकारणमाह-संविद्रूपातिरेकेणेति । साधारायामिव पूज्यपूजाधिकरणपूजकपूजोपकरणादिप्रपञ्चलक्षणसंसारसमुल्लासविरहात्संसारनाशहेतुत्वेनेयं महत्तरेत्यर्थः ॥ १५ ॥ अतः संसारनाशाय साक्षिणीमात्मरूपिणीम् । आराधयेत्परां शक्ति प्रपञ्चोल्लासवर्जिताम् ॥ १६॥ १ ख. मित्यत्र दु। २ ख. 'रिति द्वयोरर्थः । ३ ख. 'न्तिकभेद । ४ ख. ग. 'तुलं का। For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy