SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भध्यायः ४ ] सूतसंहिता । किमत्र बहुनोक्तेन श्रूयतां मुनिपुङ्गवाः । पूजया सर्वजन्तूनां भोगमोक्षौ च नान्यथा ॥ ४८ ॥ भोगेच्छयेति । भोगापवर्गसाधनं शिवपूजेति युक्तम् ॥ ४७ ॥ ४८ ॥ तस्माद्भवन्तोऽप्यमुना पूर्वोक्तेनैव वर्त्मना । पूजयध्वं महादेवं भुक्तिमुक्तिफलप्रदम् ॥ ४९ ॥ इति श्रुत्वा मुनिश्रेष्ठाः सूतं सर्वार्थसागरम् । प्रणम्य पूजयामासुः शंकरं शशिभूषणम् ॥ ५० ॥ तेषां पुत्राश्व पौत्राश्व ज्ञातयः सुहृदो जनाः । पूजयामासुरीशानं मुनिभिस्तैः प्रचोदिताः ॥ ५१ ॥ तस्मादिति । भवन्त इति शत्रन्तम् । यूयमपि प्रागुक्ता इव सन्तः पूजयध्वमित्यर्थः ॥ ४९ ॥ ५० ॥ ५१ ॥ ४९ पूजया सदृशं पुण्यं नास्ति लोकत्रयेष्वपि । पूजयैव महादेवः शंकरः परमेश्वरः ॥ ५२ ॥ नीलकण्ठो विरूपाक्षः शिवो नित्यं प्रसीदति । पूजिते देवदेवेशे पुराणे सर्वकारणे ॥ ५३ ॥ पूजयैवेति । यथाधिकारं प्रागुक्तया मानस्या बाह्यया वा ॥ ५२ ॥ ५३ ॥ पूजिता देवताः सर्वा इति वेदान्तनिश्वयः । भोगं मोक्षं च लभते नात्र कार्या विचारणा ॥ ५४ ॥ इति श्रीस्कन्दपुराणे श्रीसूतसंहितायां शिवमाहात्म्यखण्ड ईश्वरपूजाविधानं नाम चतुर्थोऽध्यायः ॥ ४ ॥ For Private And Personal Use Only पूजिता देवताः सर्वा इति वेदान्तनिश्चय इति । उक्तं ह्यथर्वशिरसि शिवे - नैव 'मां यो वेद स सर्वान्देवान्वेद' इति ॥ ५४ ॥ इति श्रीमत् काशीविलासक्रियाशक्तिपरमभक्त श्रीमत्रयम्बकपादाब्जसेवापरायणेनोपनिषन्मार्गप्रवर्तकेम माधवाचार्येण विरचितायां श्रीसूतसंहिता तात्पर्यदीपिकायां शिवमाहात्म्पखण्ड ईश्वरपूजाविधानं नाम चतुर्थोऽध्यायः ॥ ४ ॥
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy