________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शिवमाहात्म्यखण्डे
तात्पर्यदीपिकासमेता पञ्चमोऽध्यायः।
नैमिषीया ऊचुःभगवन्सर्वशास्त्रार्थपरिज्ञानवतां वर । ब्रूहि पूजाविधि शक्तेः परायाः संग्रहेण तु ॥१॥ सूत उवाचवक्ष्ये पूजाविधि शक्तेः पराया आस्तिकोत्तमाः।
अयन्तश्रद्धया सार्ध शृणुध्वं भुक्तिमुक्तिदम् ॥२॥ उक्तभोगापवर्गलक्षणं फलं परमेश्वरः स्वशक्त्यैव दातुं शक्तो नान्यथा । तदुक्तम्
"शक्तो यया स शंभुर्भुक्तौ मुक्तौ च पशुगणस्यास्य ।
तामेनां चिद्रूपामाद्यां सर्वात्मनाऽस्मि नतः" इति ॥ अत उक्तशिवपूजाफलावाप्तयेऽवश्यापेक्षितां मुनयः शक्तिपूजां पृच्छन्तिभगवन्सर्वशास्त्रार्थेति । अस्ति काचित्परा शक्तिर्नाम यत्पूजया शिवपूजा मोक्तफला भवतीति सामान्यतो ज्ञात्वा शक्तिस्वरूपतद्विभागतत्पूजाविधींश्च विशेषतो जिज्ञासूनां मुनीनामयं प्रश्नः । दाहपाकप्रकाशादिविषयाः शक्तयो वह्नयादावपि सन्ति । इयं तु शिवस्य जगन्निर्माणादिविषयेति पराया इति विशेषणम् । अत्यन्त श्रद्धयेति । शिवपूजाया ज्ञातत्वात्मासङ्गिकीयं जिज्ञासेति मा भूत् । तत्साफल्यस्य तदधीनत्वादनाविशयेन भवितव्यमित्याशयः । यथा दण्डचकादयः स्वरूपेण तथा व्यपदिश्यमाना अपि कार्यघटादिप्रतियोगिनिरूप्येण रूपेण कारणानीत्युच्यन्ते । एवं परशिवस्वरूपेण तथोच्यमानोऽपि कृत्यपश्च. कलक्षणशक्येन निरूप्यमाणः परा शक्तिरित्युच्यते । उक्तं हि तस्य कृत्यपश्वकम्
"पञ्चविधं तत्कृत्यं सृष्टिस्थितिसंहृतितिरोभावाः।
तद्वदनुग्रहकरणं प्रोक्तं सततोदितस्यास्य" इति ॥ परमार्थतस्तु सा च शक्तिः शक्तिमतः शिवादभिन्नैवेत्यागमेषु बहुधा प्रपश्चितम्
ग. . तामेतां । २ ख. भावन्निति । ३ ङ. 'गिरू। ४ ख. 'भिनेत्या।
For Private And Personal Use Only