________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०
तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्डे ब्राह्मणोऽपीति । गणिकापतिरपि ब्राह्मणः सभादर्शनमात्रेण कृतप्रायश्चित्त इति पूर्वोक्तमकारेण प्रणवेन पूजयामासेत्युक्तम् ॥ ३७ ॥ ३८ ॥ ३९ ॥ ४० ॥
केचिदाराणसी गत्वाऽऽपूज्य पूर्वोक्तवर्मना । महादेवं महात्मानं विमुक्ता भवबन्धनात् ॥४१॥ केचिच्छ्रीसोमनाथाख्यं केचित्केदारमद्भुतम् । केचिच्छ्रीपर्वतं मुख्यं केचिद्रोपर्वतं नराः ॥४२॥ केचिदक्षिणकैलासं केचिदग्नीश्वराभिधम् । केचिच्छीहरतीर्थाख्यं केचिद्वृद्धाचलाभिधम् ॥४३॥ केचिदल्मीकमाश्चर्य केचिद्धालास्यसंज्ञितम् । केचिद्रामेश्वरं पुण्यं केचित्कान्तारमादरात् ॥४४॥ प्राप्य पूर्वोक्तमार्गेण शिवं पूज्य द्विजोत्तमाः।
अनायासेन संसारादिमुक्ता वेदवित्तमाः॥४५॥ क्षेत्राणां प्रभावोत्कर्षतरतमभावसंभवेऽप्युक्तपूजाविधानमाहात्म्यानिरतिशयश्रद्धापूर्वकात्सममेव फलमपवर्गलक्षणं प्रतिपन्ना इत्याह—केचिद्वाराणसीमिति । आपूज्येत्याकारप्रश्लेषः। शिवं पूज्येत्यसमासेऽपि ल्यबादेशश्छान्दसः ॥ ४१ ॥ ४२ ॥ ४३ ॥ ४४ ॥४५॥
केचित्स्वे स्खे गृहे देवं समाराध्य यथाबलम् ।
पूर्वोक्तेनैव मार्गेण विमुक्ता भवबन्धनात् ॥ ४६॥ यथाबलमिति । बलं सामर्थ्य मनतिक्रम्य विद्यमानसामर्थ्यमवञ्चयित्वा । अत एव गृहे शिवं समाराध्य विमुक्ताः। भवो जन्म स एव दुःखमयसंसारबन्धहेतुत्वाइन्धनं जन्माभावे हि दुःखाभावोऽपवर्गो भवति । उक्तं हि गौतमेन 'दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः' इति । शास्त्रजनिततत्त्वज्ञानादहं मनुष्य इति मिथ्याज्ञानापाये रागादिदोषापायाद्धर्माधर्मयोः प्रवृत्त्यभावेन तनिबन्धनजन्माभावादात्यन्तिकदुःख निवृत्तिरूपोऽपवर्गों भवतीत्यर्थः ॥ ४६॥
केचिद्रोगेच्छया देवं पूर्वोक्तेनैव वर्मना। श्रद्धयाऽऽपूज्य देवेशं भुक्त्वन्तो महासुखम् ॥४७॥
For Private And Personal Use Only