SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः४] सूतसंहिता। योगिभ्यश्च तथाऽन्येभ्यो दत्त्वा सर्वस्वमर्जितम् । श्रीमदभ्रसभां नित्यं ब्राह्मणा वेदपारगाः॥३३॥ दान्त इति । दम इन्द्रियाणां निषिद्धव्यापारोपरमः । विप्रजनितोपदेशेन जातनिर्वेदे मनस्युपरते तदधीनव्यापाराणि तस्माद्यापारादुपारमन्नित्यर्थः ॥ २३ ॥ २४ ॥२५॥ २६ ॥ २७ ॥ २८ ॥ २९ ॥३०॥ ३१॥३२॥३३॥ दूरे दृष्ट्वा नमस्कृत्वा पञ्चक्रोशाबहिर्दिजाः । उवास सुचिरं कालमेवं कृत्वा दिने दिने ॥३४॥ नमस्कृत्वेति । नम इति शब्दपरो निर्देशः । नम इत्येतत्पदप्रयोगं कृत्वेत्यर्थः । नमस्कृत्येति तु पाठेऽर्थपरस्य नमःशब्दस्य गतिसमासे 'नमस्पुरसोर्गत्योः' इति सत्वम् । नमस्कृत्वेति तु पाठे क्त्वाऽपि च्छन्दसीति ल्यपोऽपवादः क्त्वादेशश्छान्दसः ॥ ३४॥ एवं चिरगते काले पुल्कसः पुण्यगौरवात् । स्थानसंरक्षणव्याजात्तत्रैव मरणं गतः ॥ ३५ ॥ स पुनर्मरणादूर्ध्व भुत्ला भोगाननेकशः। श्रीमद्याघ्रपुरेशस्य प्रसादादम्बिकापतेः ॥ ३६॥ स्थानसंरक्षणव्याजादिति । व्याजशब्देन निमित्तमात्रं लक्षितम् । संरक्षणादेतोरित्यर्थः ॥ ३५ ॥ ३६॥ अवाप परमां मुक्तिमविघ्नेन द्विजोत्तमाः। ब्राह्मणोऽपि तथैवास्मिन्स्थाने प्रातः समाहितः॥३७॥ स्नानं कृत्वा महादेवमम्बिकापतिमीश्वरम् । पूजयामास पूर्वोक्तप्रकारेण महेश्वरम् ॥ ३८॥ तस्यापि ब्रह्मविच्छ्रेष्ठाः पूजया परमेश्वरः। श्रीमद्दभ्रसभानाथः प्रददौ मुक्तिमीश्वरः ॥ ३९॥ बहवो वेदविच्छेष्ठाः पूर्वोक्तेनैव वर्त्मना। शिवलिङ्गार्चनं कृत्वा विमुक्ता भवबन्धमात् ॥४०॥ १ ग. ब्राह्मणान्वेदपारगान् । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy