SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भध्यायः४] सूतसंहिता। इत्थमुक्ता पूजा । तत्फलमाह-एवं पूजा कृता येनेति ॥ १६ ॥ पूजया भुक्तिमामोति पूजया मुक्तिमाप्नुयात् । पुरा कश्चिन्महापापी पुल्कसः पुरुषाधमः ॥ १७॥ ब्राह्मणानां कुलं हत्वा गवां वेदविदां वराः । अपत्दृत्य धनं मार्ग प्राणिहिंसापुर सरम् ॥ १८॥ स्वच्छन्दं निघणो विप्राश्चचार पृथिवीतले । तस्य मित्रमभूत्कश्चिद्वाह्मणो गणिकापतिः ॥ १९॥ तत्राऽऽदरातिशयार्थमाख्यायिकामाह-पुरा कश्चिदित्यादिना। पुल्कसलक्षणमत्रैव वक्ष्यते 'जातः शूद्रेण राजन्यां वैदेहाख्यः स पुल्कसः' इति । पुल्कसकृतपापप्रपञ्चवर्णनं ताहगपि दनसभादर्शनमात्रादेव विमुक्त इति सभादनिप्रभावोत्कर्षज्ञापनाय ॥ १७ ॥ १८ ॥ १९ ॥ तस्मै दत्तं धनं किंचित्पुल्कसेन द्विजोत्तमाः। स पुनर्ब्राह्मणस्तुष्टो मतिं तस्मै प्रदत्तवान् ॥२०॥ ब्राह्मण उवाचसुबन्धो मम दुर्बुद्धे त्वया पापानि निर्धण। कृतानि सर्वदा मूढ वं हो किं ते फलिष्यति ॥२१॥ इत्येवं बहुधा विप्रः पुल्कसं प्रत्यभाषत । सोऽपि विप्रवचः श्रुत्वा बहुशः पण्डितोत्तमाः॥२२॥ मति तस्मै प्रदत्तवानिति । दातुं प्रवृत्तवान् । आदिकर्मणि क्तवतुः । अन्यथा 'अच उपसर्गात्तः' इति सत्वे प्रत्तवानिति स्यात् । आदिकर्मणि तु 'प्रदत्तं चाऽऽदिकर्मणि' इति क्तेन क्तवतोरप्युपलक्षणात्तत्वप्रतिषेधे ददादेश एव भवति । यदि वा ब्राह्मणेन पुल्कसं प्रति बुद्धिदानं बहुशः वृतं तदलम् । मतिदानस्य प्रारम्भमात्रं ततोऽप्यतिशयितस्यापरिमितस्य कर्तव्यस्य संभवास्कृतस्याऽऽरम्भमात्रत्वमित्यादिकर्माभिमायः ॥ २० ॥ २१ ।। २२ ।। १ ग. इत्युक्ता । २ इ. 'शयेन पूर्वमा' । ३ ङ. 'त इति । आ'। For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy