SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४४ तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्डे संन्यासी देवदेवेशं प्रणवेनैव पूजयेत् । नमोन्तेन शिवेनैव स्त्रीणां पूजा विधीयते ॥ १४ ॥ पञ्चाक्षरपूजायां स्त्रीशूद्राणां विशेषमाह-नमोन्तेनेति ॥ १४ ॥ विरक्तानां च शूद्राणामेवं पूजा प्रकीर्तिता। अन्येषामपि सर्वेषां नराणां मुनिपुङ्गवाः ॥ १५॥ अन्येषामिति । संकरजातीनां देवालयं दृष्ट्वा तस्य देवालयस्य प्रणाम एव पूजा प्रकीर्तिता ॥ १५॥ पूजा देवालयं दृष्ट्वा प्रणामस्तस्य कीर्तितः। एवं पूजा कृता येन सफलं तस्य जीवितम् ॥ १६॥ पुराणान्तरेषु स्त्रीशूद्रादीनां सर्वेषां प्रणवमात्रं परित्यज्यावशिष्टेन पञ्चाक्षरेणैव पूजाऽभिहिता । यथाऽऽह वसिष्ठः-- "ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः । सदों नमः शिवायेति शिवमनं समाश्रयेत् ।। पञ्चाक्षरः सपणवो द्विजराज्ञोर्विधीयते । विट्शूद्रजन्मनां वाऽपि स्त्रीणां निर्बीज एव हि ॥ सबीजः सस्वरः सौम्य विपक्षत्रिययोर्द्वयोः । नेतरेषामितीशानः स्वयमेवाऽऽह शंकरः॥ दुर्वृत्तो वृत्तहीनो वा पतितोऽप्यन्त्यजोऽपि वा। जपेत्पश्चाक्षरौं विद्यां जपेनैवाऽऽनुयाच्छिवम्" इति ॥ शैवपुराणे शिवोऽप्याह-- "समन्त्रकं तु पतितो हार्चपेद्यदि पद्मज । नारकी स्यान्न संदेहो मम पञ्चाक्षरं विना ।। मयोक्तमेतद्धि पुरा पवित्रं पञ्चाक्षरं मन्त्रमिमं शिवायै । साधारणं पद्मज वेदसारं ममाऽऽज्ञया सर्वमिदं सुरेश" इति ॥ नन्दीश्वरोऽपि 'शृणुष्वातिरहस्यं ते वदामि मुनिपुङ्गव । हिताप सर्वलोकानां पतितानां विशेषतः ॥ समन्त्रकं सकृद्वाऽपि पतितः पूजयेद्यदि । नारकी स्यान संदेहः शैवपञ्चाक्षरं विना' इति । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy