SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अध्यायः ४ ] सूतसंहिता | पुनः प्राप्य महादेवमापोहिष्ठादिभिस्त्रिभिः । तथा पुरुषसूक्तेन श्रीमत्पञ्चाक्षरेण च ॥ ७ ॥ पुनराचमनं दत्त्वा प्रतिष्ठाप्याssसने हरम् । दत्त्वा वस्त्रं मुनिश्रेष्ठाः प्रणवेन समाहितः ॥ ८ ॥ उपवीतं पुनर्दत्त्वा भूषणानि च सादरम् । गन्धं पुष्पं तथा धूपं दीपं चैवाऽऽदरेण च ॥ श्रीमत्पञ्चाक्षरेणैव प्रणवेन युतेन च । हविर्निवेद्य देवाय पानीयेन संहाऽऽदराव ॥ १० ॥ पुनराचमनं दत्त्वा ताम्बूलं सोपदंशकम् । माल्यं दत्त्वाऽनुलेपं च प्रणम्य भुवि दण्डवत् ||११|| ९ ॥ पञ्चाक्षरेण चेति । चकारादन्यैरपि शतरुद्रियादिभिः ॥ ७ ॥ ८ ॥ ९ ॥ ॥ १० ॥ ११ ॥ Acharya Shri Kailassagarsuri Gyanmandir लौकिकैवैदिकैः स्तोत्रैः स्तुत्वा हृदि विसर्जयेत् । प्रणवेन महादेवं सर्वज्ञं सर्वकारणम् ॥ १२ ॥ ४३ प्रणवेन हृदि विसर्जयेदिति हृदि स्वप्रतिष्ठिततया शिवमनुसंदध्यादित्यर्थः । हृदयं तस्य नियतं स्थानम् । 'ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति' इति स्मृतेः । हृदयं तद्विजानीयादित्यारभ्य ' तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः ' ' स ब्रह्मा स शिवः स हरिः सेन्द्रः सोऽक्षरः परमः स्वराट्' इति श्रुतेश्च । इत्थं संग्रहेण शिवपूजाविधिरुक्तः । एतावताऽप्यसौ पूर्ण एव । For Private And Personal Use Only 'बह्वल्पं वा स्वगृह्येोक्तं यस्य यावत्प्रकीर्तितम् | तस्य तावति शास्त्रार्थं कृते सर्वः कृतो भवेत्' इतिन्यायात् ॥ प्रपञ्चस्तु पुराणान्तरादागमान्तरेभ्यश्वोक्तोऽविरुद्ध उपसंहर्तव्यः || १२ || ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च सुव्रताः । एवं दिने दिने देवं पूजयेदम्बिकापतिम् ॥ १३ ॥ उक्त पूजाविधावाश्रमभेदेन मन्त्र व्यवस्थामाह - त्रह्मचारीति ॥ १३ ॥ १ ख तु । २ ङ, सदाऽऽद । ३ ख भगवदुक्तेः । ४ ङ. 'दयमित्या |
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy