________________
Shri Mahavir Jain Aradhana Kendra
४२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तात्पर्यदीपिकासमेता
स्फाटिकं त्रिविधं ज्ञेयं सूर्यचन्द्रानलात्मकम् | श्वेतं रक्तं च पीतं च कृष्णच्छायं द्विजास्त्रिषु || त्रिपञ्चवारं यस्यैव तुलासाम्यं न जायते । तदा बाणं समाख्यातं शेषं पाषाणसंभवम् ॥ नद्यां वा प्रक्षिपेयो यदा तदुपलक्ष्यते । बाणलिङ्गं तदा विद्धि' इति ॥
तथा तत्रैव मृन्मयादिलिङ्गानामुत्तरोत्तरोत्कर्षाभिधानप्रस्तावे - 'संस्थाप्य बाणलिहं तु रत्नास्कोटिगुणं भवेत् । रसलिङ्गे ततो वाणात्फलं कोटिगुणं स्मृतम् ॥ को गुणाचसलिङ्गस्य वक्तुं शक्नोति शांकरि । सिद्धयो रसलिङ्गे स्युरणिमाद्याः सुसंस्थिताः' इति ॥ ४ ॥
[ १ शिवमाहात्म्यखण्डे
आदाय श्रद्धया विप्राः शिवलिङ्गं समाहितः । तत्रैवाऽऽवाह्य देवेशं प्रणवेन हृदि स्थितम् ॥ ५ ॥
प्रोक्तलक्षणलक्षितं शिवलिङ्गमादाय दीक्षापुरःसरं परिगृह्य | आवाह्येति । आवाहनं लिङ्गेऽभिव्यक्त्यनुसंधानम् । विसर्जनं तु निजरूपेणावस्थानचिन्तनम् | उक्त हि—
'आवाहनमभिव्यक्तिः शक्तिभावो विसर्जनम्' इति । आवाहनं तदादिसंस्कारदशकोपलक्षणम् । यथाऽऽहुरागमविदः - 'आवाहनं स्थापनं च सांनिध्यं संनिरोधनम् । सकलीकारममृतीकरणं चाथ पाद्यकम् ॥
तत आचमनं चार्घ्यं पुष्पं च दश संस्क्रियाः' इति ।
प्रणवेनेति । तेन हि यत्कृतं तदशेषैर्मन्त्रैः कृतं भवति । श्रूयते हि - 'यः प्रणवमधीते स सर्वमधीते' इति । तथा 'एतद्वै यजुवयों विद्यां प्रत्येषा वागेतपरममक्षरम्' इति ॥ ५ ॥
For Private And Personal Use Only
अर्ध्य दत्वा मुनिश्रेष्ठाः पूर्वोक्तेनैव मन्त्रतः । पाद्यमाचमनं चैव पुनः पूर्वोक्तमन्त्रतः ॥ ६ ॥
पूर्वोक्तेनेति । प्रणवेन । मन्त्रतो मन्त्रेण पञ्चाक्षरेण ॥ ६॥
१ ङ. शक्त्यमा । २ ङ. म् । संक