________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः४]
सूतसंहिता। 'इत्थमात्माश्रयद्रव्यमलिङ्गविशुद्धिषु ।
कृतासु देवदेवस्य पूजनं नान्यथा भवेत्' इति ॥ सदेति पावत्पूजाकालमित्यर्थः। निश्चलश्चासावुदङ्मुखश्च । उदङ्मुखत्वं चोक्तं सोमशंभुना
'देवदक्षिणदिग्भागे संनिविष्टः सुखासने ।
उत्तरस्थो विनीतात्मा न्यस्तमन्त्रकरद्वयः' इति ॥ उदङ्मुखत्वे कारणमुक्तं ज्ञानरत्नावल्याम्
'न माच्यामग्रतः शंभो!त्तरे योषिदाश्रये ।
न प्रतीच्यां यतः पृष्ठं तस्मादक्षं समाश्रयेत्' इति ॥ दक्षं देवस्य दक्षिणभागम् । तं चाऽऽश्रित उत्तराभिमुख एव भवति ॥३॥
विचित्रमासनं तत्र निधाय ब्रह्मवित्तमाः।
आगस्त्येनैव शास्त्रेण प्रोक्तलक्षणलक्षितम् ॥४॥ विचित्रमिति । स्थिरलिङ्ग आधारशक्त्यादिशिवासनपर्यन्तर्विविधव्याप्तिभावनाविषयश्चित्रमित्यर्थः । चरलिङ्गे तूक्तरूपं स्थिरासनं स्नानार्थं षडुत्थं चलासनं च दत्त्वेत्यर्थः । आगस्त्येनेति नानागमोपलक्षणम् । लिङ्गलक्षणमुक्तं श्रीकालोतरादिषु
'स्थिरलिने सदाकार्य सिद्धिकामैः प्रयत्नतः । भुक्तिमुक्तिपदं पुंसां चरलिङ्गे शिवार्चनम् ।। सर्वत्र संस्थितः पूज्यः सर्वाधारेषु सर्वदा । तथाऽपि लिने भगवान्पूजां गृह्णाति धूर्जटिः ॥ असंपूर्णा कृता पूजा मन्नद्रव्यक्रियागुणैः । तथाऽपि लिने संपूर्णा पूजा भवति षण्मुख ।। लीयन्ते यत्र भूतानि निर्गच्छन्ति यतः पुनः । तेन लिङ्गं परं व्योम नष्कलः परमः शिवः ।। लिङ्गयते चिन्त्यते येन भावेन भगवाशिवः । योगिभिस्तत्रिधा लिङ्गं व्यक्ताव्यक्तोभयात्मकम् ॥ व्यक्तं तत्सकलं ज्ञेयमव्यक्तं निष्कलं मतम् । ज्ञानज्योतिर्मयं लिङ्गं व्यक्ताब्यक्तमिदं स्मृतम् ।।
१ ख. 'वनया वि।
For Private And Personal Use Only